________________
बैयायिकमतम् ।
ज्ञानस्थाजनकं तु प्रमाणस्य फलं भवेब पुनः प्रमाणम् । प्रमेयं प्रमाणजन्यज्ञानेन ग्राह्यं वस्तु २ । दोलायमाना प्रतौतिः मंशयः । चकारास्त्रयो ऽपि प्रमाणदीनामन्योन्यापेक्षया समुचयार्थाः ३ । प्रयोजनमभीष्टं साधनौयं फलम् ४ । दृष्टान्तो वादिप्रतिवादिसंमतं निदर्शनम् । अपिः समुच्चये ५ । अथशब्द । अानन्तर्य । सिद्धान्तः सर्वदर्शनशास्त्रसंमतप्रभृतिः ६ । अवयवाः पक्षादयो ऽनुमानस्याङ्गानि । संदेहादूर्ध्वमन्वयधर्मचिन्तनं तर्कः स्थाणुरचाधुना संभवतीति ८ । स्थाणुरेवायमित्यवधारणं निर्णयः । द्वन्दे तर्कनिर्णयौ । । गुरुणा ममं तत्त्वनिर्णयार्थं वदनं वादः । १० । परेण समं जिगीषया जल्पनं 10 जल्पः । ११ । अपरामृष्टवस्तुतत्त्वं मौखर्यमा वितण्डा । १३ । हेतबदाभासमाना हेत्वाभामा न सम्यग्घेतव इत्यर्थः १३ । परवचनविघातार्थविकल्पोपपादनानि छलानि १४ । जातयो ऽसम्यग्दषणनि १५ । यस्तैर्वका निग्रह्यते, तानि निग्रहस्थानानि १६ । इति। एषामनन्तरोनानां प्रमाणादौनामेवमित्थं 15 प्ररूपणा खरूपप्रदर्शना भवति ॥ तचादौ प्रमाणस्य स्वरूपणां चिकीर्षुः प्रथमतस्तस्य सामान्यलक्षणं संख्यां च प्राह "अर्थापलब्धिहेतुः स्थात्प्रमाणम्"। अर्थस्य ग्राह्यस्य बाह्यस्य स्तम्भकुम्भाम्भोरुहादेरान्तरस्य च ज्ञानसुखादेपलब्धि नमर्योपलधिः। व्याख्यानतो विशेषप्रतिपत्तिरिति न्यायादत्राथमि- 20 चारिण्यव्यपदेश्या व्यवसयात्मिका चार्थापखभिर्याह्या, न तूपलधिमात्रम्। तस्या यो हेतुः कारणं स प्रमाणं स्याद्भवेत् ।