________________
५8
घड्दनसमुच्चयः सटीका ।
नान्यपि खात्मानं न जानते, ततस्ते कथं सर्वज्ञाः स्थरित्यावेदितं भवति । तथा नित्यबुद्धिममाश्रयो नित्याया बुद्धेनिस्य स्थानं, क्षणिकबुद्धिमतो हि पराधौनकार्यापेक्षणेन मुख्यकर्ट
वाभावादनौश्वरत्वप्रसक्तिरिति । ईदृशविशेषणविशिष्टो नैया5 यिकमते भिवो देवः ॥
अथ तन्मते तत्त्वानि विवरिषुः प्रथमं तेषां संख्यां नामानि च समाख्याति। तत्त्वानि षोडशामुच प्रमाणादौनि तद्यथा।
प्रमाणं च प्रमेयं च संशयश्च प्रयोजनम् ॥१४॥ 10 दृष्टान्तो ऽप्यथ सिद्धान्तो ऽवयवास्तनिर्णयौ।
वादो जल्यो वितण्डा च हेत्वाभासाश्छलानि च ॥१५॥ जातयो निग्रहस्थानान्येषामेवं प्ररूपणा। अर्थोपलब्धिहेतुः स्यात्प्रमाणं तचतुर्विधम् ॥१६॥
चिभिर्विशेषकम् ॥ व्याख्या ॥ अमुत्रास्मिन्प्रक्रान्ने नैया15 यिकमते प्रमाणदौनि प्रमाणप्रमेयप्रभृतौनि षोडश तत्त्वानि
भवन्ति । तद्यथेत्युपदर्शने। “प्रमाणं च” इत्यादि। तत्र प्रमितिरुपलब्धिर्ज्ञानं येन जन्यते, तज्ञानस्य जनकं कारणं प्रमाणम् । प्रमीयते ज्ञान जन्यते ऽनेनेति प्रमाणमिति व्युत्पत्तेः । ज्ञानस्थ
च जनकं दिविधम् । अचेतनं ज्ञानं च। तत्राचेतनमिन्द्रिय20 तदर्थसन्निकर्षप्रदीपलिङ्गशब्दादिकं ज्ञानस्य कारणत्वात्प्रमाणं,
ज्ञानान्तरजन्मनि ययाप्रियते तदपि ज्ञानजनकत्वात्प्रमाणम् ।