________________
नैयायिकमतम् ।
धर्मिप्रतिपादनार्थवादस्य, ज्ञानपदोपात्तो हि धर्मीन्द्रियार्थमनिकर्षजत्वादिभिर्विशेष्यते । अन्यथा धर्नाभावे काव्यभिचारादौन धर्मास्तत्पदानि प्रतिपादयेयुः। केचित्पुनरेवं व्याचक्षते । अव्यपदेश्य-व्यवसायात्मकमिति-पददयेन निर्विकल्पकपविकल्पकभेदेन प्रत्यक्षस्य वैविध्यमाह, शेषाणि तु ज्ञानविशेषाणानौति। अत्र च सूत्रे फलस्वरूपसामग्रौविशेषणपक्षास्त्रयः संभवन्ति । तेषु स्वरूपविशेषणपक्षो न युक्तः । यथोक्रविशेषणं ज्ञानं प्रत्यक्षमिति हि तत्रार्थः स्यात् । तथा चाकारकस्य ज्ञानस्य प्रत्यक्षवप्रमक्तिः न चाकारकस्य प्रत्यक्षत्वं युक्तं, असाधकतमत्वात्माधकतमस्यैव च प्रमाणत्वात्। तुलासुवर्णादीनां प्रदीपादौनां 10 मनिकर्षन्द्रियादीनां चाबोधरूपाणामप्रत्यक्षत्वप्रसङ्गश्च । इष्यते चैषां सूत्रकता प्रत्यक्षत्वं, तन्न खरूपविशेषणपक्षो युक्तः । नापि सामग्रौविशेषणपक्षः । सामग्रौविशेषणपक्षे ह्येवं सूत्रार्थः स्यात् । प्रमाटप्रमेयचक्षुरादौन्द्रियालोकादिका ज्ञानजनिका सामग्रौन्द्रियार्थमन्निकर्षात्पन्नत्वादिविशेषणविशिष्टज्ञानजननादुपचारेणेन्द्रि- 15 वार्थसन्निकर्षात्पन्नत्वादिविशेषणविशिष्टा मती प्रत्यक्षमिति । एवं च सामय्याः सूचोपात्तविशेषणयोगित्वं तथाविधफलजनकत्वादुपचारेणैव भवति, न तु खत इति । न त युक्रस्तत्पक्षो ऽपि । फलविशेषणपक्षस्तु युक्तिसंगतः । अत्र पक्षे यत इत्यध्याहार्यम् । ततो ऽयमर्थः । इन्द्रियार्थसन्निकर्षोत्पन्नत्वादिविशेषणं 20 ज्ञानं यत इन्द्रियार्थसविकर्षादेर्भवति, स इन्द्रियार्थसन्निकर्षादिः प्रत्यचं प्रमाणम् । ज्ञानं तु प्रत्यक्षप्रमाणफलम् । यदा