________________
शैवाः पाशुपताचैव महाव्रत लिया।
तुर्याः कासमुखा मुख्या भेदा एते तपखिमाम् ॥२॥..... तेषामन्तभंदा भरटभक्करलैङ्गिकतापमादयो भवन्ति । भरटादीनां व्रतग्रहणे ब्राह्मणदिवर्णनियमो नास्ति । यस्य तु भिवे भक्तिः स प्रती भरटादिर्भवेत् । परं शास्त्रेषु नैयायिकाः । सदा शिवभकत्वाच्छवा इत्युच्यन्ते, वैशेषिकास्तु पाशुपता इति । तेन नैयायिकशासनं शैवमाख्यायते, वैशेषिकदर्शनं च पाशुपतमिति। इदं मया यथा श्रुतं यथा दृष्टं चाचाभिदधे । तत्तविशेषस्तु नझन्थेभ्यो विज्ञेयः ॥ अथ पूर्वप्रतिज्ञातं नैयायिकमतसंक्षेपमेवाह ।
10
अक्षपादमते देवः सृष्टिसंहारकृच्छिवः। विभुनित्यैकसर्वज्ञो नित्यबुद्धिसमाश्रयः ॥१३॥
अक्षपादेनायेन गुरुण यतः प्रणोतं नैयायिकमतस्य मूलसूत्रं, तेन नैयायिका श्राक्षपादा अभिधीयन्ते, तन्मतं चाक्षपादमतमिति । तस्मिनक्षपादमते शिवो महेश्वरः, सृष्टिचराचरस्य 15 जगतो निर्माणं, संहारस्तदिनाशः । इन्हे सृष्टिसंहारौ। तावसावचिन्यशक्तिमाहात्म्येन करोतीति सृष्टसंहारकृत् । केवलायाः सृष्टः करणे निरन्तरोत्पाद्यमानो ऽसंख्यः प्राणिगणो भुवनपये ऽपि न मायादिति सृष्टिवत्संहारस्थापि करणम् । अत्र प्रयोगमेवं शैवा व्याहरन्ते। भूभूधरसुधाकरदिनकरमकराकरादिकं 20 बुद्धिमत्पूर्वकं, कार्यत्वात् । यद्यत्कार्य तत्तहुद्धिमत्पूर्वकं, यथा घटः ।