________________
५४
षड्दर्शनसमुच्चयः सटीका।
रूपाणि पक्षधर्मत्वं सपक्षे विद्यमानता। विपक्षे नास्तिता हेतोरेवं चौणि विभाव्यताम् ॥११॥
साध्यधर्मविशिष्टो धर्मों पक्षः, तस्य धर्मः पक्षधर्मः, तद्भावः पक्षधर्मत्वम् । पक्षशब्देन चात्र केवलो धर्म्यवाभिधीयते, अवयवे 5 समुदायोपचारात् । यदि पुनर्मुख्य एव साध्यधर्मविशिष्टो धर्मों पक्षो ग्टह्येत, तदानुमानं व्यर्थमेव स्यात्, साध्यस्यापि धर्मिकमिद्धत्वात् । ततश्च पक्षधर्मत्वं पक्षे धर्मिणि हेतोः सद्भावः । म च प्रत्यक्षतो ऽनुमानतो वा प्रतीयते । तत्र प्रत्यक्षतः
कस्मिंश्चित्प्रदेशे धमस्य दर्शनम् । अनुमानतश्च शब्द कृतकत्वस्य 10 निश्चयः । इदमेकं रूपम् ॥ तथा समानः पक्ष: सपचः,
तस्मिन्सपचे दृष्टान्ने विद्यमानता हेतोरस्तित्वं सामान्येन भाव इत्यर्थः । इदं द्वितीयं रूपं, अस्य च "अन्वयः” इति दितीयमभिधानम् ॥ तथा विरुद्धः पचो विपक्षः माध्यमाधनरहितः, तस्मिन्विपचे नास्तिता हेतोरेकान्तेनासत्त्वम्। इदं हतौयं 15 रूपम्, अस्य च “यतिरेक" इति द्वितीयमभिधानम् ॥ एतानि
पक्षधर्मत्वमपक्षमत्त्वविपक्षासत्त्वलक्षणनि हेतोर्लिङ्गस्य त्रीणि रूपाणि ॥ एवंशब्दस्य इतिशब्दार्थत्वादिति विभाव्यतां हृदयेन सम्यगवगम्यताम् ॥ तच हेतोर्यदि पक्षधर्मत्वं रूपं न स्यात्,
तदा महानसादौ दृष्टो धूमो ऽन्यत्र पर्वतादौ वहिं गमयेत् । 20 न चैवं गमयति । ततः परधर्मत्वं रूपम् ॥ तथा यदि सपक्ष
सत्त्वं रूपं न स्यात्, तदा साध्यसाधनयोरग्रहीतप्रतिबन्धस्थापि