________________
बौद्धमतम् ।
एव्येव चतुर्यु भेदेवन्तर्भवन्तौति प्रतिभेदरूपत्वानाच पृथयभिहिताः ॥
स्वभावहेतुर्यथा वृक्षो ऽयं शिंशपात्वात् । कार्यहेतुर्यथा अग्निरत्र धूमात् । एषु चानुपलब्यादिषु त्रिषु हेतुषु तादात्म्यतदुत्पत्तिसंबन्धबलादविनाभावो विद्यते, श्राद्यान्च्ययोरनुप- 5 लब्योः स्वभावहेतोश्च तादात्म्यभावात्, मध्ययोरनुपलब्योः कार्यहेतोश्च तदुत्पत्तिसद्भावात् । अविनाभावश्च तादात्म्यतदुत्पत्तिभ्यामेव व्याप्तः। तादात्म्यतदुत्पत्तौ चानुपलब्धिखभावकार्यवेव विद्यते, नान्यत्र । ततस्तादात्म्यतदुत्पत्तिप्रतिबन्धविकलानामनुपलब्धिखभावकार्यव्यतिरिक्तानामर्थानां सर्वेषां हेत्वाभासतैव 10 प्रत्येतव्या । तेन संयोग्यादिका वैशेषिकादिकल्पिता हेतवो न भवन्ति, व्यभिचारस्य संभवात् । कारणात्कार्यानुमानं तु व्यभिचारित्वेनैव नाभ्युपगम्यते । यदपि रमतः समानममयस्य रूपादेरनुमानं मौगतैरभ्युपगतं, यदपि समयेण हेतुना कार्यात्पादानुमानं च, ते अपि स्वभावानुमानतयाभ्युपेते। तथाहि । 15 ईदृशरूपान्तरोत्पादसमर्थः प्राकनो रूपक्षणः, ईदृशरमजनकलात्, पूर्वापलब्धरूपवदिति रूपान्तरोत्पादरूपसामर्थ्यानुमानम् । योग्येयं प्रतिबन्धविकला बोजादिसामग्री खकार्योत्पादने समयत्वात्, पूर्वदृष्टबोजादिसामग्रीवदिति योग्यतानुमानम्। अतः स्वभावहेतुप्रभावे एवैते, न पुनः कारणात्कार्यानुमान इति । 20
अथानुपलब्ध्यादिभेदेन विविधस्थापि लिङ्गस्य यानि बौणि रूपाणि भवन्ति, तान्येवाह