________________
बौद्धमतम् ।
5
ऽपि न दर्शनमचणिकत्वे प्रमाणं, किं तु प्रत्युताप्रमाणं, विपरीताध्यवसायाक्रान्तत्वात् । क्षणिकत्वे ऽपि न तत्प्रमाणं, अनुरूपाध्यवायाजननात् । नीलरूपे तु तथाविर्धनिश्चयकरणात्प्रमाणमिति । ततो युक्तमुकं निर्विकल्पकमभ्रान्तं च प्रत्यक्षमिति । अत्र “अभ्रान्तं” इति विशेषणग्रहणादनुमाने च तदग्रहणादनुमानं भ्रान्तमित्यावेदयति । तथाहि । भ्रान्तमनुमानं, सामान्यप्रतिभासित्वात्, सामान्यस्य च बहिः स्खलक्षणे व्यतिरेकाव्यतिरेकविकल्पाभ्यामपाक्रियमाणतयायोगात्, सामान्यस्य स्वलक्षणरूपतयानुमाने विकल्पनात् । श्रतस्मिन्न खलक्षणे तग्रहस्य स्वलक्षणतया परिच्छेदस्य भ्रान्तिलक्षणत्वात् । प्रामाण्यं 10 पुनः प्रणालिकया बहि: खलचणबलायातत्वादनुमानस्य । तथाहि । नार्थं विना तादात्म्यतदुत्पत्तिरूपसंबन्धप्रतिबद्धलिङ्गसद्भावो, न तद्दिना तद्विषयं ज्ञानं, न तज्ज्ञानमन्तरेण प्रागवधारितसंबन्धस्मरणं, तदस्मरणे नानुमानमित्यर्थाव्यभिचारित्वायान्तमपि प्रमाणमिति संगौर्यते । । तदुक्तम् ।
तस्मिंस्तहो भ्रान्तिरपि संधानतः प्रमा । इति ॥ श्रमुमेवार्थं दृष्टान्तपूर्वकं निश्चये धर्मकीर्तिरकीर्तयत् । यथा ।
मणिप्रदौपप्रभयोर्मणिबुड्याभिधावतोः ।
मिथ्याज्ञानाविशेषे ऽपि विशेषो ऽर्थक्रियां प्रति ॥ १ ॥ यथा तथा यथार्थत्वेऽप्यनुमानं तदा तयोः । श्रर्थक्रियानुरोधेन प्रमाणत्वं व्यवस्थितम् ॥ २ ॥ इति ॥ तथानुमानलचणमाह । “चिरूपाल्लिङ्गतो लिङ्गिज्ञानं त्वनु
6
४१
15
20