________________
बौद्धमतम् ।
10
त्वमेव स्थान तु शौर्यौदार्यधैर्यादयः । तदयुक्तं यतः सर्व वाक्यं सावधारणमिति न्याये ऽप्याङ्कितस्यैव व्यवच्छेदः । परार्थं हि वाक्यमभिधीयते। यदेव च परेण व्यामोहादाशङ्कितं तस्यैव व्यवच्छेदः। चैत्रो धनुर्धर इत्यादौ च चैत्रस्य धनुर्धरत्वायोग एव परैराशङ्कित इति तस्यैव व्यवच्छेदो नान्य- 5 धर्मस्य । इह चार्वाकसांख्यादय एकैकध्यमनेकधा च सम्यग्ज्ञानमाहुः, अतो नियतवैविध्यप्रदर्शनेन एकत्वबहुवे सम्यग्ज्ञानस्य प्रतिक्षिपति। एवं चायमेवकारो विशेषणेम विशेष्येण क्रियया च सह भाव्यमाणः क्रमेणायोगान्ययोगात्यन्तायोगव्यवछेदकारित्वात्रिधा भवति । यद्विनश्चयः ।
अयोगं योगमपरैरत्यन्तायोगमेव च ।
व्यवच्छिनत्ति धर्मस्य निपातो व्यतिरेचकः ॥१॥ निपात एवकारः, व्यतिरेचको निवर्तकः ।
विशेषणविशेष्याभ्यां क्रियया घः मोदितः । विवक्षातो ऽप्रयोगे ऽपि तस्यार्थी ऽयं प्रतीयते ॥२॥ 15 व्यवच्छेदफलं वाक्यं यतश्चैत्रो धनुर्धरः । पार्थो धनुर्धरो नौलं सरोजमिति वा यथा ॥३॥
सम्यग्ज्ञानस्य च वैविध्यं प्रत्यक्षपरोक्षविषयवैविध्यादवसे यम् । यतो ऽत्र प्रत्यक्षविषयादन्यः सर्वो ऽपि परोक्षो विषयः । ततो विषयदैविध्यात्तद्गृहके सम्यग्ज्ञाने अपि दे 20 एव भवतो न न्यूनाधिके । तत्र यत्परोक्षार्थविषयं सम्यग्ज्ञानं, तत्वसाध्येन धर्मिणा च संबद्धवादन्यतः सकाशात्मामान्येना