________________
घड्दर्शनसमुच्चयः सटीकः ।
तं वै मोक्षं विजानीयाहुःप्रापमकृतात्मभिः ॥ १ ॥
इति स्मृतिवचनाच मोक्षस्य सुखमयत्वं प्रतिपत्तव्यमिति स्थितम् ॥
.. अत्र सांख्या ब्रुवते । इह शुद्धचैतन्यस्वरूपो ऽयं पुरुषः, 5 णस्य कुजौकरणे ऽप्यशकत्वादकर्ता, साक्षादभोक्ता, जडां प्रकृति मक्रियामाश्रितः । अज्ञानतमश्छन्नतया प्रकृतिस्थमपि सुखादिफलमात्मनि प्रतिबिम्बितं चेतयमानो मोदते मोदमानश्च प्रकृतिं सुखस्वभावां मोहान्मन्यमानः संसारमधिवसति।
यदा तु ज्ञानमस्याविर्भवति “दुःखहेतुरियं न ममानया सह 10 संसर्गी युक्तः” इति, तदा विवेकख्यातेर्न तत्संपादितं कर्मफलं भुते । सापि च "विज्ञातविरूपाहं न मदीयं कर्मफलमनेन भोक्तव्यम्” इति मत्वा कुष्टिनी स्त्रीवादवसर्पति । तत उपरतायां प्रकृतौ पुरुषस्य स्वरूपेणावस्थानं मोक्षः स्वरूपं च
चेतनामनिरपरिणामिन्यप्रतिसंक्रमाप्रतिदर्शितविषयानन्ता च । 15 अतस्तदात्मक एव मुक्तात्मा न पुनरानन्दादिखभावः, तस्य प्रतिकार्यत्वात्, तस्याश्च जौवनाशं नष्टत्वात् ॥ ___ अत्र वयं ब्रूमः। यत्तावदुक्तं “संसार्यात्मा अज्ञानतमन्छन्नतया"इत्यादि, तदसुन्दरं, यतः किमज्ञानमेव तम उताज्ञानं च तमश्चेति । प्रथमपक्षे मुक्तात्मापि सुखादिफलं किं नात्मस्थं 20 मन्येत, ज्ञानस्य बुद्धिधर्मत्वाद्धेश्च प्रकृत्या सममुपरतत्वात्, मुक्तात्मनो ऽपि ज्ञानाभावेनाज्ञानतमश्छन्नत्वाविशेषात् । द्वितीयपचे तु किमिदमज्ञानादन्यत्तमो नाम रागादिकमिति चेत्,