________________
जैनमतम् ।
तन्न, तस्थात्मनो ऽत्यन्तार्थान्तरभूतप्रकृतिधर्मतयात्माच्छादकत्वानुपपत्तेः । आच्छादकत्वे वा मुक्तात्मनो ऽप्याच्छादनं स्यात्, अविशेषात् । किं च संसार्यात्मनो ऽकर्तरपि भोतत्वे ऽङ्गौक्रियमाणे कृतनाशाक्तागमादयो दोषाः प्रमज्यन्ते । किं च । प्रकृतिपुरुषयोः संयोगः केन कृतः । किं प्रकृत्योतात्मना वा। 5 न तावत्प्रकृत्या, तस्याः सर्वगतत्वान्मुक्तात्मनो ऽपि तत्संयोगप्रसङ्गः । अथात्मना, तर्हि स आत्मा शुद्धचैतन्यस्वरूपः सन् किमर्थं प्रकृतिमादत्ते । तत्र को ऽपि हेतुरस्ति न वेति वक्तव्यम् । अस्ति चेत्, तर्हि म हेतुः प्रकृतिर्वा स्थादात्मा वा, अन्यस्य कस्याप्यनभ्युपगमात् । श्राद्यपक्षे यथा मा प्रकृतिस्तस्था- 10 त्मनः प्रकृतिसंयोगे हेतः स्यात्, तथा मुक्तात्मनः किं न स्यात्, प्रकृतिसंयोगात्पूर्व शुद्धचैतन्यखरूपत्वेनोभयोरप्यविशेषात् नियामकाभावाच्च । द्वितीयपक्षे स आत्मा प्रकृत्यात्मनोः संयोगे हेतुत्वं प्रतिपद्यमानः किं स्वयं प्रकृतिसहकृतः मन् हेतुर्भवति तद्वियुक्तो वा । श्राद्ये तस्यापि प्रकृतिसंयोगः कथमित्यनवस्था । 15 द्वितीये पुनः स प्रकृतिरहित श्रात्मा शुद्धचैतन्यस्वरूपः सन् किमर्थं प्रकृत्यात्मनोः संयोगे हेतुत्वं प्रतिपद्यते । तत्र को ऽपि हेतुर्विलोक्य इति तदेवावर्तत इत्यनवस्था । इति सहेतुकः प्रकृत्यात्मन संयोगो निरस्तः । अथ निहतकः, तर्हि मुक्तात्मनो ऽपि प्रकृतिसंयोगप्रसङ्गः। किं च अयमात्मा प्रकृतिमुपाददान: 20 पूर्वावस्था जह्यान्न वा । श्राद्ये ऽनित्यत्वापत्तिः । द्वितीये तदुपादानमेव दुर्घटम् । न हि बान्यावस्थामत्यजन् देवदत्तस्तरु