________________
जैनमतम् ।
१र
ननु तस्थामवस्थायां कीदृगात्मावशिष्यते । स्वरूपैकप्रतिष्ठानः परित्यको ऽखिलैर्गुणैः ॥ ४ ॥ ऊर्मिषट्कातिगं रूपं तदस्थाहर्मनीषिणः । संसारबन्धनाधीनदुःखक्लेशाद्यदूषितम् ॥ ५ ॥ (जर्मयः कामक्रोधमदगर्वलोभदम्भाः। न हि वै सशरीरस्य । प्रियाप्रिययोरपहतिरस्ति । अशरीरं वाव मन्तं प्रियाप्रिये न स्पात इत्यादि), तदप्यपास्तं द्रष्टव्यम् । यतः किं एभकर्मपरिपाकप्रभवाणि भवसंभवानि सुखानि मुको निषिध्यमानानि मन्युत सर्वथा तदभावः । श्राद्ये सिद्धमाधनम् । द्वितीये ऽसिद्धः, श्रात्मनः सुखखरूपत्वात्। न च पदार्थानां खरूप- 10 मत्यन्तमुच्छिद्यते, अतिप्रसङ्गात् । न च सुखखभावत्वमेवामिळू, तत्सद्भावे प्रमाणसद्भावात्। तथाहि पात्मा सुखखभावः, अत्यन्तप्रियबुद्धिविषयत्वात् अनन्यपरतयोपादीयमानत्वाच्च, वैषयिकसुखवत् । यथा सुखार्थी मुमुचुप्रयत्नः, प्रेक्षापूर्वकारिप्रयत्नत्वात्, कृषीवलप्रयत्नवदिति । तच सुखं मुक्तौ परमातिशयप्राप्तं, 15 मा चास्थानुमानात्प्रसिद्धवा; यथा, सुखतारतम्यं कचिद्विश्रान्त, तरतमशब्दवाच्यत्वात्, परिमाणतारतम्यवत् । तथा ।
पानन्दं ब्रह्मणो रूपं तच्च मोक्षे ऽभिव्यज्यते । यदा दृष्ट्वा परं ब्रह्म सर्व त्यजति बन्धनम् ॥ तदा तचित्यमानन्दं मुकः खात्मनि विन्दति । 20 इति श्रुतिमद्भावात् । तथा । सुखमात्यन्तिकं यत्तडुद्धियाह्यमतौन्द्रियम् ।