________________
१८
घड्दर्शनसमुच्चयः सटीकः ।
रूपतयावस्थानात् । प्रयोगश्चात्र । पूर्वापरखभावपरिहाराङ्गीकारस्थितिक्षणपरिणामवान्प्रदीपः, सत्त्वात्, पटादिवदिति । अत्र बहु वक्तव्यं, तत्त्वभिधास्यते विस्तरेणानेकान्तप्रघट्टके । किं च। इन्द्रियजानां बुड्या दिगुणानामुच्छेदः साध्यमानो ऽस्त्युताती5 न्द्रियाणाम्। तत्राद्यपक्षे सिद्धमाधनं, अस्माभिरपि तत्र नदुच्छेदाभ्युपगमात् । द्वितीयविकल्ये मुक्तौ कस्यचिदपि प्रवृत्त्यनुपपत्तेः । मोक्षार्थों हि सो ऽपि निरतिशयसुखज्ञानादिप्राण्यभिलाषेणैव प्रवर्तते, न पुनः मिलाकलकल्पमपगतसकलसु
खसंवेदनमात्मानमुपपादयितुं यतते । यदि मोक्षावस्थायामपि 10 पाषाणकल्पो ऽपगतसुखसंवेदनालेशः पुरुषः संपद्यते, तदा
कृतं मोक्षण, संसार एव गरौयान्, यत्र मान्तरापि सुखलेशप्रतिपत्तिरप्यस्ति । अतो न वैशेषिकोपकल्पिते मोक्षे कस्खचिगन्तुमिच्छा । उक्तं च ।
वरं वृन्दावने वासः टगालेश्च महोषितम् । 15 न तु वैशेषिकौं मुक्ति गौतमो गन्तुमिच्छति ॥ १. एतेन यदूचौमांसका अपि
यावदात्मगुणाः सर्वे नोच्छिन्ना वासनादयः । नावदात्यन्तिको दुःखव्यावृत्ति वकल्पते ॥ १ ॥ धर्माधर्मनिमित्तो हि संभवः सुखदुःखयोः । मूलभूतौ च तावेव स्तम्भौ संसारसद्मनः ॥ २ ॥ नदुच्छेदे च तत्कार्यभरौराद्यनुपरसवात् । नात्मनः सुखदुःखे स्त इत्यमौ मुक्त उच्यते ॥ ३॥