________________
जैनमतम् ।
5
सिद्धो हेतुः, पचे वर्तमानत्वात् । नापि विरुद्धः, सपचे प्रदीपादौ सत्त्वात् । नाप्यनैकान्तिकः, केवलपरमाएखादावप्रवृत्तेः । नापि कालात्ययापदिष्टः, विपरीतार्थस्थापकयोः प्रत्यचानुमानयोरत्रासंभवात् । ननु संतानोच्छेदहेतुर्वक्तव्य इति चेत् । उच्यते । निरन्तरशास्त्राभ्यासात्कस्यचित्पुंसस्तत्त्वज्ञानं जायते, तेन च मिथ्याज्ञाननिवृत्तिर्विधीयते, तस्य निवृत्तौ तत्कार्यभूता रागादयो निवर्तन्ते, तदभावे तत्कार्या मनोवाक्कायप्रवृत्तिर्व्यावर्तते, तद्व्यावृत्तौ च धर्माधर्मयोरनुत्पत्तिः । श्रारब्धशरीरेन्द्रियकार्ययोस्तु सुखादिफलोपभोगात्प्रचयः । अनारब्धशरीरादिकार्ययोरप्यवस्थितयोस्तत्फलोपभोगादेव प्रक्षयः । ततश्च सर्वसंतानो- 10 च्छेदान्मोच इति स्थितम् ॥
अत्र प्रतिविधीयते । यत्तावदुक्तं "संतानलात्" इत्यादि, तदसमीचीनं, यत श्रात्मन: सर्वथा भिन्नानां बुझादिगुणानां संतानस्योच्छेदः साध्यते ऽभिन्नानां वा कथंचिद्भिन्नानां वा । श्राद्यपच श्राश्रयासिद्धो हेतु:, संतानिभ्यो ऽत्यन्तं भिन्नस्य 15 सन्तानस्यासत्कल्पत्वात् । द्वितीयपचे तु सर्वथाभिन्नानां तेषामुच्छेदसाधने संतानवत् संतानिनो ऽप्युच्छेदप्रसङ्गः । ततख कस्यासौ मोचः । भिन्नाभिन्नपचाभ्युपगमे चापसिद्धान्तः । किं च॥ विरुद्धश्चायं हेतुः, कार्यकारणभूतक्षणप्रवाहलचणसंतानत्वस्य नित्यानित्यैकान्तयोरसंभवात् । श्रर्थक्रियाकारित्वस्यात एव प्रति - 20 पादिष्यमाणत्वात् । साध्यविकलश्च दृष्टान्तः, प्रदीपादेरत्यन्तोच्छेदासंभवात्, तैजसपर माणूनां भाखररूपपरित्यागेनान्धकार
१८७