________________
जैनमतम्।
यथास्तिर्यगूधं च लोष्टवाव निवौचयः । खभावतः प्रवर्तन्ते तथोर्ध्वगतिरात्मनः ॥ ६ ॥ . . अधस्तिर्यक् तथोषं च जीवानां कर्मजा गतिः । ऊर्ध्वमेव स्वभावेन भवति चौणकर्मणम् ॥ ७ ॥ ततो ऽयूर्ध्वगतिस्तेषां करमावास्तौति चेन्मतिः ।
धर्मास्तिकायस्थाभावात्म हि हेतुर्गतेः परम् ॥ ८ ॥ धर्मास्तिकायस्य गतिहेतुत्वं पुरापि बवस्थापितमेवेति । ननु भवतु कर्मणामभावे ऽपि पूर्वप्रयोगादिभिर्जीवस्योर्ध्व गतिः, तथापि सर्वथा गरौरेन्द्रियादिप्राणानामभावान्मोक्ष जौवस्थाजीवत्वप्रमङ्गः । यतो जौवनं प्राणधारणमुच्यते ; तच्चे- 10 बास्ति, तदा जीवस्य जीवनाभावादजीवं स्यात्, अजीवस्य च मोक्षाभाव इति चेत् । न, अभिप्रायापरिज्ञानात् । प्राणा हि द्विविधाः, द्रव्यप्राणा भावप्राणाश्च । मोचे च द्रव्यप्राणानामेवाभावः, न पुनर्भावप्राणानाम् । भावप्राणाश्च मुक्तावस्थायामपि मन्त्येव । यदुक्तम् ।
यस्मात्मायिकसम्बकवीर्यदर्शनज्ञानैः ।। प्रात्यन्तिकैः स युक्तो निईन्डेनापि च सुखेन ॥ १ ॥ ज्ञानादयस्त भावप्राण मुक्तो ऽपि जीवति स तैईि ।
तस्मात्तज्जौवत्वं नित्यं सर्वस्थ जीवस्य ॥ २ ॥ ततश्चानन्तज्ञानानन्तदर्शनानन्तवीर्यानन्तसुखलक्षणं जौवनं 20 सिद्धानामपि भवतीत्यर्थः । सुखं च सिद्धानां सर्वसंमारसुखविलक्षणं परमानन्दरूपं ज्ञातव्यम् । उक्त च।