________________
१८४ . .
षडदर्शनसमुच्चयः सटीकः।
अन्यथा कार्यानुत्पत्तेः । काञ्चनोपलयोः संयोगेन च हेतुरनेकान्तिकः । तत्संयोगो ऽपि ह्यनादिसंततिगतो ऽपि क्षारमृत्युटपाका दिनोपायेन विघटमानो दृष्ट इति। अथ रागादयो धर्मा धर्मिण प्रात्मनो भिन्नाश्चेत्, तदा सर्वेषां वीतरागत्वसि5 भृत्वप्रसङ्गः, रागादिभ्यो भिन्नत्वात्, मुकात्मवत् । अभिवाश्चेत्, तदा तेषां चये धर्मिणो ऽपि चय इति । तदयुक्त, भेदाभेदपक्षस्य जात्यन्तरस्याभ्युपगमात् । कथमिति चेत् । उच्यते । धर्मिधर्माणं न भेद एव, अभेदस्यापि सत्त्वात् ; नाप्यभेद
एव, भेदस्थापि सद्भावात् । ततो नोकदोषावकाश इति । अथ 10 कार्मणभरौरादेः सर्वथावियोगे कथं जीवस्योर्ध्वमा लोकान्तं
गतिरिति चेत् । पूर्वप्रयोगादिभिस्तस्योर्ध्व गतिरिति ब्रूमः । तदुक्तं तत्त्वार्थमाये ।
तदनन्तरमेवोया खोकान्तात्म गच्छति । पूर्वयोगामङ्गवाहन्धच्छेदोर्ध्वगौरवैः ॥ १ ॥ कुलालचक्र होखायामिषौ चापि यथेष्यते । पूर्वप्रयोगात्कमह तथा सिद्धगतिः स्मृता ॥ २ ॥ मृल्लेपसङ्गनिर्माचाद्यथा दृष्टाप्सु लाबुनः । कर्मसङ्गविनिर्माक्षात्तथा सिद्धगतिः स्मृता ॥ ३ ॥
एरण्डस्पुटदेलास बन्धच्छेदाद्यथा गतिः ।। 20 कर्मबन्धनविच्छेदान्जीवस्यापि तथेष्यते ॥ ४ ॥ ' -
ऊर्ध्वगौरवधर्माणो जौवा इति जिनोत्तमैः । अधोगौरवधर्माणः पुगला इति चोदितम् ॥ ५ ॥
15