________________
जैनमतम् ।
११
शंक्याह "इयोरपि" कर्मवर्गणायोग्यस्कन्धानां जीवस्य चान्योन्यानुगमात्मान्योन्यानुगतिस्वरूपः परस्परानुप्रवेशरूप इत्यर्थः । प्रयमत्र भावः । वययस्पिण्डसंबन्धवत् चौरोदकसंपर्कवद्वा जीवकर्मणोर्मियोऽनुप्रवेशात्मक एव संबन्धो बन्धो बोद्धव्यो, न पुनः कञ्चकिकञ्चकसंयोगकल्पोऽन्यो वेति । अत्राह । कथम-5 मूर्तस्यात्मनो हस्ताद्यसंभवे मत्यादानशक्तिविरहात्कर्मग्रहणमुच्यत इति चेत् । उच्यते । इयमेव तावदस्थानारेका प्रक्रिया भवतो ऽनभिज्ञता ज्ञापयति, यतः केनामूर्तताभ्युपेतात्मनः कर्मजीवसंबन्धस्थानादित्वादेकवपरिणमे सति चौरोदकवन्मर्त एव कर्मग्रहणे व्याप्रियते । न च हस्तादिव्यापारादेयं कर्म, किं 10 तु पौगलमपि सदध्यवसायविशेषाद्रागद्वेषमोहपरिणामाभ्यञ्जनलक्षणादात्मनः कर्मयोग्यपुगलजालश्लेषणमादानं खेहान्यावपुषो रजोलगनवदिति । प्रतिप्रदेशानन्तपरमाणुसंश्लेषानौवस्य कर्मणा मह खोलीभावात्कथंचिन्मूर्तत्वमपि संसारावस्थायामभ्युपगम्यत एव स्थाबादवादिभिरिति । स च प्रशस्ताप्रशस्तभेदाद् 15 बेधा । प्रकृतिस्थित्यनुभागप्रदेशभेदाच्च चतुर्विधा । प्रकृतिः स्वभावो यथा ज्ञानावरणं ज्ञानाच्छादनखभावमित्यादि । स्थितिरध्यवसायकृतः कालविभागः । अनुभागो रसः । प्रदेशः कर्मदलसंचय इति । पुनरपि मूलप्रकृतिभेदादष्टधा ज्ञानावरपादिकः । उत्तरप्रकृतिभेदादष्टपञ्चाशदधिकशतभेदः। मोऽपि 20 तीव्रतीव्रतरमन्दमन्दतरादिभेदादनेकविध इत्यादि कर्मग्रन्थादवसेयम् । उक्तं बन्धतत्त्वम् ॥