________________
१८०
घड्दर्शनसमुच्चयः सटीकः।
बन्धास्रवयोरन्योन्य कार्यकारणभावनियमात् । न चैवमितरतराश्रयदोषः, प्रवाहापेक्षयानादित्वात् । अयं चास्रवः पुण्यापुण्यबन्धहेतुतया विविधः । विविधोऽप्ययं मिथ्यात्वाद्युत्तरभेदापेक्ष
योत्कर्षापकर्षभेदापेक्षया वानेकप्रकारः । अस्य च शुभाशुभ5 मनोवाक्कायव्यापाररूपस्थास्रवस्य सिद्धिः खात्मनि स्वसंवेदनाद्यध्यक्षतः परस्मिंश्च वाक्कायव्यापारस्य कस्यचित्प्रत्यक्षतः शेषस्य च तत्कार्यप्रभवानुमानतश्चावसेया, पागमाच ॥
अथ संवरबन्धौ विवृणोति ।
संवरस्तन्निरोधस्तु बन्धो जीवस्य कर्मणः । 10 अन्योन्यानुगमात्मा तु यः संबन्धो इयोरपि ॥५१॥
व्याख्या ॥ तेषां मिथावविरतिकषाययोगानामात्रवाणं सम्यग्दर्शनविरतिप्रमादपरिहारक्षमादिगुप्तित्रयधर्मानुप्रेक्षाभिनिरोधो निवारणं स्थगनं संवरः; पर्यायकथनेन व्याख्या।
श्रात्मनः कर्मोपादानहेतुभूतपरिणामाभावः संवर इत्यभिप्रायः। 15 स च देशसभेदावेधा । तत्र बादरसूक्ष्मयोगनिरोधकाले सर्वसंवरः। शेषकाले चरणप्रतिपत्तेरारभ्य देशसंवरः ॥
अथ बन्धतत्त्वमाह। “बन्धो जीवस्य कर्मणः” इत्यादि। तत्र बन्धः परस्पराग्नेषो जीवप्रदेशपुगलानां चौरनौरवत् । अथवा
बध्यते येनात्मा पारतन्यमापद्यते ज्ञानावरणादिना संबन्धः 20 पुगलपरिणामः। ननु जीवकर्मणोः संबन्धः किं गोष्ठामाहिल
परिकल्पितकञ्चुकिकञ्चकसंयोगकल्प उतान्यः कचिदित्या