________________
षड्दर्शनसमुच्चयः सटौकः ।
फलनिवर्तकत्वादप्रशस्ता जीवसंबद्धवाः कर्मपुद्गलाः पापमित्यर्थः । इह च वक्ष्यमाणबन्धतत्त्वान्तभूतयोरपि पुण्यपापयोः पृथग्निदेशः पुण्यपापविषयनानाविधपरमतभेदनिरामार्थः। परमतानि चामूनि । केषांचित्तौर्थिकानामयं प्रवादः। पुण्यमेवैकमस्ति, 3 न पापम् । अन्ये त्याहुः । पापमेवैकमस्ति, न पुण्यम् । अपरे
तु वदन्ति । उभयमप्यन्योन्यानुविद्धखरूपं मेचकमणिकल्पं तन्मिश्रसुखदुःखाख्यफलहेतुः साधारणं पुण्यपापाख्यमेकं वस्विति । अन्ये पुनराः । मूलतः कमैव नास्ति स्वभावसिद्धः सर्वोऽप्ययं जगत्प्रपञ्च इति । तदेतानि निखिलानि 10 मतानि न सम्यगिति मन्तव्यानि, यत सुखदुःखे विविक्के . एवोभे सर्वैरनुभयेते । ततस्तत्कारणभूते पुण्यपापे अपि स्वतन्त्र एवोभे अङ्गीकर्तव्ये, न पुनरेकतरं तद्यं वा तन्मिनमिति । अथ कर्माभाववादिनो नास्तिका वेदान्तिनश्च वदन्ति ।
ननु पुण्यपापे नभोम्भोजनिभे एव मन्तव्ये, न पुनः मते ; 13 कुतः पुनस्तयोः फलभोगथाने वर्गनरकाविति चेत् । उच्यते ।
पुण्यपापयोरभावे सुखदुःखयोनिहतुकत्वादनुत्पाद एव स्यात् । स च प्रत्यक्षविरुद्धः। तथाहि। मनुजत्वे समानेऽपि दृश्यन्ते केचन खामित्वमनुभवन्तो, अपरे पुनस्तत्प्रेष्यभावमाबिधाणः ।
एके च लक्ष कुक्षिभरयः, अन्ये तु स्वोदरदरौपूरणेऽप्यनिपुणाः, 20 एके देवा इव निरन्तरं सरसविलाससुखशालिनः, इतरे पुन
नारका वोनिद्रदुःखविद्राणचित्तवृत्तय इति। अतोऽनुभूयमानसुखदुःखनिबन्धने पुष्पापे खौकर्तव्ये। तदङ्गीकरणे च