________________
.
जैनमतम् ।
विशिष्टयोस्तत्फलयोभीगस्थाने खर्गनरकावपि प्रतिपत्तव्यौ, अन्यथार्धजरतीयन्यायप्रसङ्गः स्यात्। प्रयोगश्चात्र। सुखदुःखे कारणपूर्वके, कार्यवात्, अङ्गुरवत्। ये च तयोः कारणे, ते पुण्यपापे मन्तव्ये, यथाकुरस्य बीजम्। अथ नौलादिकं मूत वस्तु यथा स्वप्रतिभासिज्ञानस्यामूर्तस्य कारणं भवति, तथावस्रक्- 5 चन्दनादिकं मूतं दृश्यमानमेव सुखस्थामूर्तस्य कारणं भविष्यति, अहिविषकण्टकादिकं च दुःखस्य । ततः किमदृष्टाभ्यां पुण्यपापाभ्यां परिकल्पिताभ्यां प्रयोजनमिति चेत् । तदयुनं, व्यभिचारात् । तथाहि। मुख्यावस्त्रगादिसाधनयोरपि द्वयोः पुरुषयोः सुखदुःखखचणे फले महान्भेदो दृश्यते। तस्येऽपि ह्यन्नादिके 10 भुक्के कस्याप्याबादो दृश्यते, अपरस्थ तु रोगाद्युत्पत्तिः। अयं च फलभेदोऽवश्यमेव सकारणः, निःकारणत्वे नित्यं सत्त्वामत्त्वप्रसङ्गात्। यच्च तत्कारणं, तददृष्टं पुण्यपापरूपं कर्मति । तदुक्तम् ।
जो तुलसाहणेणं पले विमेसो न सो विणा हेउं । कज्जत्तणशी गोयम घडो ब्व हेऊ श्र मो. कम्मं ॥ इवि। 15
अथवा कारणनुमानात्कार्यानुआनाच्चैवं पुण्यपापे गम्यते। तत्र कारणानुमानमिदम् । दानादिशुभक्रियाणां हिंसाद्यशुभक्रियाणं वास्ति फलभुतं कार्य, कारणत्वात्, कृष्यादिक्रियावत् । यच्चामां फलभृतं कार्य तत्पुण्यं पापं चावगन्तव्यं, यथा कृष्यादिक्रियाणां गालियवगोधमाधिकम्। ननु यथा कथ्या दिक्रिया 20 दृष्टशाल्यादिफलमात्रेणैवावमितप्रयोजना भवन्ति, तथा दानादिकाः पशुहिंसादिकाश्च सर्वा अपि क्रियाः माघादिना
१२..---