________________
जैनमतम् ।
पौगलिकत्वाद्रूपमुपलभ्यते, तथा शब्देऽपि कुतो नेति चेत् । उच्यते। सूक्ष्मत्वात्, विध्यातप्रदीपशिखारूपादिवत् गन्धपरमाणुव्यवस्थितरूपादिवइति । गन्धादौनां तु पुद्गलपरिणामता प्रसिद्धैव। तमश्छायादीनां त्वम्। तमः पुद्गलपरिणामो, दृष्टिप्रतिबन्धकारित्वात्, कुड्यादिवत् ; आवारकत्वात्, पटादिवत् । । छायापि शिशिरत्वात्, पाप्यायकत्वात्, जलवातादिवत् । छायाकारेण परिणममाणं प्रतिबिम्बमपि पौगलिक, माकारत्वात्। अथ कथं कठिनमादर्शी प्रतिभिद्य मुखतो निर्गताः पुगलाः प्रतिबिम्बमाजिहत इति चेत्। उच्यते। तत्प्रतिभेदः कठिनशिलातलपरिस्रुतजलेनायस्पिण्डे ऽग्निपुगलप्रवेशेन शरीरात्म- 10 खेदवारिलेशनिर्गमनेन च व्याख्येयः। प्रातपो ऽपि द्रव्यं, ताप- . कत्वात्, खेदहेतुत्वात्, उष्णत्वात्, अग्निवत्। उद्योतश्च चन्द्रिकादिद्रव्यं, श्राबादकत्वान्, जलवत् ; प्रकाशकत्वात्, अग्निवत् । तथा पद्मरागादौनामनुष्णाशीत उद्योतः । अतो मूर्तद्रव्यविकारस्तमश्छायादिः। इति सिद्धाः पुगलाः। इति सुस्थितमजीवतत्त्वम् ॥ 15
अथ पुण्यतत्त्वमभिधत्ते “पुण्यं मत्कर्मपुद्गलाः” इति पुण्यं सन्तस्तीर्थकरत्वखर्गादिफलनिवर्तकत्वात्प्रशस्ताः कर्मणां पुङ्गला जौवसंबद्धाः कर्मवर्गणाः ॥ अथ पापासवतत्त्वं व्याख्याति ।
पापं तविपरीतं तु मिथ्यात्वाद्यास्तु हेतवः । ये बन्धस्य स विज्ञेय आसवो जिनशासने ॥५०॥ 20 तुर्भिन्नक्रमे। पापं तु तस्मात्पुण्यादिपरौतम्। नरकादि