________________
१७०
घड्दर्शनसमुच्चयः सटीकः ।
दयो ऽपि किं न खकार्यानुमेया भवेयुः । धर्मास्तिकायादीनां कार्याणि चामूनि। तत्र धर्मो गत्युपग्रहकार्यानुमेयः, अधर्मः स्थित्युपग्रहकार्यानुमेयः, अवगाहोपकारानुमेयमाकाशं, वर्तना
द्युपकारानुमेयः कालः, प्रत्यक्षानुमानावसेयाश्च पुद्गलाः। नन्वा5 काशादयः स्वकार्यानुमेया भवन्तु, धर्माधर्मों तु कथम् । अत्रोच्यते युतिः। धर्माधौं हि खत एव गतिस्थितिपरिणतानां द्रव्याणामुपगृहाते ऽपेक्षाकारणतया, आकाशकालादिवत् ; न पुनर्निर्तककरणतया। निवर्तकं हि कारणं तदेव जीव
ट्रव्यं पुद्गलद्रव्यं वा गतिस्थितिक्रियाविशिष्टं, धर्माधर्मों पुनर्गति10 स्थितिक्रियाविशिष्टानां द्रव्याणामुपकारकावेव न पुनर्बलागतिस्थितिनिर्वर्तकौ । यथा च मरित्तटाकहदसमुद्रेषु वेगवाहित्वे मति मत्स्यस्य स्वयमेव संजातजिगमिषस्योपग्राहकं जलं निमित्ततयोपकरोति, दण्डादिवत्कुम्भकारे कर्तरि मृदः परिणमिन्याः, नभोवदा नभश्चरता नभश्चराणामपेक्षाकारणं ; न पुनस्तनलं 15 गतेः कारणभावं बिभ्राणमगच्छन्तमपि मत्स्य बलात्पर्य गमयति, चितिर्वा स्वयमेव तिष्ठतो द्रव्यस्य स्थानभूयमापनौपद्यते न पुनरतिष्ठट्रव्यं बलादवनिरवस्थापयति। व्योम वावगाहमानस्य खत एव द्रव्यस्य हेतुतामुपैत्यवगाहं प्रति न पुनरनवगाहमान
मवगाहयति खावष्टम्भात् । स्वयमेव कृषीवलानां कृष्यारम्भ20 मनुतिष्ठता वर्षमपेक्षाकारणं दृष्टं न च पुनः कुर्वतस्तांस्तदर्थ
मारम्भयदर्षवारि प्रतीतम् । प्रावृषि वा नवाम्भोधरध्वनिश्रवणनिमित्तोपाधीयमानगर्भा स्वत एव प्रसूते बलाका न चाप