________________
जैनमतम् ।
सूयमानां तामभिनवजलधरनिनादः प्रसभं प्रस्रावयति । प्रतिबुध्य वा पुरुषः प्रतिबोधनिमित्तामवद्याद्विरतिमातिष्ठमानो दृष्टो न च पुमांसमविरतं विरमयति बलात्प्रतिबोधः । न च गत्युपकारो ऽवगाहलचणाकाशस्योपपद्यते किं तर्हि धर्मस्यैवोपकारः स दृष्टः। स्थित्युपकारश्चाधर्मस्य नावगाहलचणस्य व्योम्नः । श्रवश्य- 5 मेव हि द्रव्यस्य द्रव्यान्तरादसाधारणः कश्चिद्गुणो ऽभ्युपेयः । द्रव्यान्तरत्वं च युक्तेरागमादा निश्चयम् । युक्तिरनन्तरमेवाग्रतो वक्ष्यते । श्रागमस्त्वयम् । “कणं भंते दव्वा पलत्ता गोयमा छ दव्वा पत्ता । तं जहा । धम्मत्थिकाए, श्रधम्मत्थिकाए, आगासत्थिकाए, पुग्गलत्थिकाए, जीवत्थिकाए, श्रद्धासम " ॥ 10
ननु धर्मद्रव्योपकारनिरपेचमेव शकुनेरुत्पतनमने रूर्ध्वज्वलनं मरुतश्च तिर्यक्पवनं स्वभावादेवानादिकालीनादिति । उच्यते । प्रतिज्ञामात्रमिदं नार्हन्तं प्रति हेतुदृष्टान्तावनवद्यौ स्तः । स्वाभाविक्या गतेर्धर्मद्रव्योपकारनिरपेचायास्तं प्रत्यमिद्धत्वात्, यतः सर्वेषामेव जौवपुद्गलानामासादितगतिपरिणतीनामुपग्राहकं 15 धर्ममनुरुध्यन्ते ऽनेकान्तवादिनः स्थितिपरिणामभाजां वाधर्म; श्रभ्यां च न गतिस्थितौ क्रियेते, केवलं साचिव्यमात्रेणोपकारकत्वं यथा भिक्षा वासयति कारोषो ऽग्निरध्यापयतीति । ननु तवापि लोकालोकव्यापिधर्माधर्मद्रव्यास्तित्ववादिनः संज्ञामात्रमेव “तदुपकारौ गतिस्थित्युपग्राहौ” इति [ तत्त्वार्थाधि - 20 गम० ५, १०]। अत्र जागद्यते युक्तिः । श्रवधत्तां भवान् । गतिस्थितो ये जीवानां पुद्गलानां च ते स्वतः परिणामावि -
१७१