________________
षड्दर्शनसमुच्चयः सटीकः ।
10
परिणामाविष्कारे मतप्रत्ययो नित्ययोगार्थ विहितः। तत्र शब्दो ध्वनिः १ । बन्धः परस्पराश्लेषलक्षणः प्रयोगविसमादिजनित औदारिकादिभरौरेषु जतुकाष्ठादिश्लेषवत् परमाणुसंयोगवति ५। मौम्यं सूक्ष्मता ३ । स्थौल्यं स्थूलता ४ । 5 संस्थानमाकृतिः ५ । भेदः खण्डगो भवनं ६ । तमन्छायादयः प्रतीताः। सर्व एवैते स्पर्शादयः शब्दादयश्च पुगलेल्वेव भवन्नौति ॥
पुगला देधा, परमाणवः स्कन्धाश्च । तत्र परमाणोर्लक्षणमिदम् ।
कारणमेव तदन्यं सूक्ष्मो नित्यश्च भवति परमाणुः । एकरसवर्णगन्धी विस्पर्शः कार्यलिङ्गश्च ॥ १ ॥ व्याख्या ॥ सकलभेदपर्यन्तवर्तित्वादन्त्यं तदेव कारणं न पुनरन्ययणकादि। तदेव किमित्याह । सूक्ष्म भागमगम्यः, अस्मदादीन्द्रियव्यापारातीतत्वात् । नित्यश्चेति द्रव्यार्थिकनयापेक्षया
ध्रुवः। पर्यायार्थिकनयापेक्षया तु नौलादिभिराकारैरनित्य 15 एवेति। न ततः परमणीयो द्रव्यमस्ति, तेन परमाणुः । तथा पञ्चामा रमानां योर्गन्धयोः पञ्चविधस्य वर्णस्यैकेन रसादिना युक्तः । तथा चतुर्णा स्पर्शानां मथे द्यावविरुद्धौ यो स्वौँ खिग्धोष्णौ स्निग्धशीतौ रूक्षशीतौ रूक्षोष्णौ वा, ताभ्यां युक्तः।
तथा कार्य यणुकाद्यचितमहास्कन्धपर्यन्तं तस्य लिङ्गमिति । 20 एवंविधवक्षणा निरवयवाः परस्परेणासंयुक्ताः परमाणवः ।
स्कन्धाः पुनर्यणुकादयो ऽनन्ताणुकपर्यन्ताः मावयवाः प्रायोग्रहणादानादिव्यापारसमर्थाः परमाणुसंधाता इति। एते धर्मा