________________
जैनमतम् ।
धर्माकाशकालपुद्गला जौवैः सह षड्द्रव्याणि । एष्वाद्यानि चत्वार्येकद्रव्याणि, जौवा : पुद्गलाश्चानेकद्रव्याणि, पुद्गलरहितानि पञ्चामूर्तानि, पुद्गलास्तु मूर्ता एवेति ॥
ननु जीवद्रव्यस्यारूपिणो ऽप्युपयोगस्वभावत्वेन स्वसंवेदन - संवेद्यत्वादस्तित्वं श्रद्धानपथमवतारयितुं शक्यम् । धर्माधर्मास्ति- 5 कायादीनां तु न जातुचिदपि स्वसंवेदनसंवेद्यत्वं समस्ति, अचेतनत्वात् । नापि परसंवेदनवेद्यता, नित्यरूपित्वेन । तत्कथं तेषां धर्मास्तिकायादौनां सतां सत्ता श्रद्धेया स्यादिति चेत् । उच्यते । प्रत्यक्षेण यो ऽर्थो नोपलभ्यते स सर्वथा नास्त्येव, यथा शशविशाणमित्येकान्तेन न मन्तव्यं ; यत इह लोके द्विविधा - 10 नुपलब्धिर्भवति । तत्रैकामतो वस्तुनो ऽनुपलब्धिः, यथा तुरङ्गमोत्तमाङ्गसंसर्गानुषङ्गिश्टङ्गस्य ; द्वितीया तु सतामप्यर्थानामनुपलब्धिर्भवति । या च मत्खभावानामपि भावानामनुपलब्धिः, साचाष्टधा भिद्यते । तथाहि । श्रतिदूरात् १, अतिसामीप्यात् २, इन्द्रियघातात् ३, मनसो ऽनवस्थानात् ४, 15 सौक्ष्म्यात् ५, आवरणात् ६, अभिभवात् ७. समानाभिहाराच्चेति ८ । तत्रातिदूराद्देशकालस्वभाव विप्रकर्षात्त्रिविधानुपलब्धिः। तत्र देशविप्रकर्षात् । यथा । कश्चित् देवदत्तो ग्रामान्तरं गतो न दृश्यते । तत्कथं स नास्ति । यो ऽस्त्येव, देशविप्रकर्षान्नोपलब्धिः । एवं समुद्रस्य परतटं मेर्वादिकं वा 20 सदपि नोपलभ्यते । तथा कालविप्रकर्षाद्भूता निजपूर्वजादयो भविष्या वा पद्मनाभादयो जिना वा नोपलभ्यन्ते, अभूवन्
१६७