________________
[प्रस्तावना
पञ्चमो विकल्पः स्वभाववादिनाम् । स्वभाववादिनी विमाहुः । इह वस्तुनः स्वत एव परिणतिः स्वभावः । सर्वे भावाः स्वभाववशादुपजायन्ते। तथाहि । मृदः कुम्भो भवति न पटादिः । तन्तभ्योऽपि पट उपजायते न घटादिः। एतच्च प्रतिनियतं भवनं न तथा खभावतामन्तरेण घटामंटङ्कमाटोकते। 5 तस्मात्सकलमिदं स्वभावकतमवसेयम् । तथा चाहुः ।
कः कण्टकानां प्रकरोति तेक्षणं विचित्रभावं मृगपक्षिणां च । स्वभावतः सर्वमिदं प्रवृत्तं न
कामचारोऽस्ति कुतः प्रयत्नः ॥ १ ॥ 10 बदर्याः कण्टकस्तौक्षण सुजुरेकश्च कुञ्चितः । ----फलं च वर्तुलं तस्या वद केन विनिर्मितम् ॥२॥ इत्यादि ।
अपि च । प्रास्तामन्यत्कार्यजातमिह मुगपकिरपि न खभावमन्तरेण भवितुमर्हति । तथाहि । स्थालौन्धनकालादि सामग्रीसंभवेऽपि न कंकदुकमुगानां पकिरुपलभ्यते । 15 तस्माद्यद्यद्भावे न भवति तत्तदन्वयव्यतिरेकानुविधायि तत्कृतमिति । स्वभावहता मुगपक्तिरप्येष्टव्या । ततः मकलमेवेदं वस्तुजातं स्वभावहेतुकमवसेयमिति ॥ ..."
तदेवं स्वत इति पदेन लधाः पञ्च विकल्पाः । एवं च परत इत्यनेनापि पञ्च लभ्यन्ते । परत इति परेभ्यो व्यावृत्तेन 20 रूपेणात्मा विद्यते । यतः प्रसिद्धमेतत् । मर्वपदार्थानां परपदार्थस्वरूपापेक्षया स्वरूपपरिच्छेदो यथा दीर्घत्वाद्यपेक्षया