________________
षड्दर्शनसमुच्चयः सटीका।
इति वक्तव्य ईश्वरवादिन इति वक्तव्यम् । तद्यथा। अस्ति जीवः खतो नित्यः ईश्वरतः । ईश्वरवादिनच सर्व जगदीश्वरकृतं मन्यन्ते। ईश्वरं च सहमिद्धज्ञानवैराग्यधर्मेश्वर्यरूपचतुष्टयं प्राणिनां च स्वर्गापवर्गयोः प्रेरकमिति । तदुक्तम् । ___ ज्ञानमप्रतिघं यस्य वैराग्यं च जगत्पतेः । ऐश्वर्य चैव धर्मश्च सहमिद्धं चतुष्टयम् ॥ १ ॥ अज्ञो जन्तुरनौशोऽयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत् स्वर्ग वा श्वभ्रमेव वा ॥२॥ इत्यादि।
बतौयो विकल्प प्रात्मवादिनाम् । आत्मवादिनो नाम 10 पुरुष एवेदं सर्वमित्यादि प्रतिपत्राः ॥
चतुर्थो विकल्पो नियतिवादिनाम् । ते विमाहुः । नियतिर्नाम तत्त्वान्तरमस्ति यशादेते भवाः सर्वेऽपि नियतेनैव रूपेण प्रादुर्भावमश्नुवते, नान्यथा। तथाहि । यद्यदा यतो
भवति तत्तदा तत एव नियतेनैव रूपेण भवदुपलभ्यते । 15 अन्यथा कार्यकारणव्यवस्था प्रतिनियतरूपव्यवस्था च न भवेत्, नियामकाभवात् । तत एवं कार्यनेयत्यतः प्रतीयमानामेना तियतिं को नाम प्रमाणपथकुशलो बाधित क्षमते। मा प्रापदन्यत्रापि प्रमाणपथव्याघातप्रमङ्गः । तथा चोक्रम्
नियतेनैव रूपेण सर्वे भावा भवन्ति यत् । 20 ततो नियतिजा येते तत्वरूपानुवेधतः ॥ १ ॥
यद्यदैव यतो यावत्तत्तदैव ततस्तथा । नियतं जायते न्यायात् क एना बाधित क्षमः ॥ ९॥