________________
षड्दशनसमुच्चयः सटीकः ।
तत्रापि विप्रतिपद्यन्ते तान् प्रतौदमभिधीयते । इन्द्रियेभ्यो व्यतिरिक्त आत्मा, इन्द्रियव्युपरमे ऽपि तदुपलभ्धार्थानुस्मरणात् । प्रयोगो ऽत्र । वह यो यदुपरमे यदुपलब्धानामर्थानामनुस्मर्ता, स तेभ्यो व्यतिरिक्तः, यथा गवाचैरुपलब्धानामर्थानां गवाचो5 परमे ऽपि देवदत्तः । श्रनुस्मरति चायमात्मान्धबधिरत्वादिकाले पोन्द्रियोपलभ्धानर्थान् । अतः स तेभ्यो ऽर्थान्तरमिति । अथवेन्द्रियेभ्वो व्यतिरिक्त श्रात्मा, इन्द्रियव्याप्तावपि कदाचिदनुप्रयुक्तावस्थायां वस्त्वनुपलम्भात् । प्रयोगश्चात्र । इन्द्रियेभ्यो व्यतिरिक्त आत्मा, तद्व्यापारे ऽप्यर्थानुपलम्भात् । दूह यो यया10 पारे ऽपि यैरुपलभ्यानर्थान्नोपलभते, स तेभ्यो भिन्नो दृष्टः, यथास्थगितगवाचे ऽप्यन्यमनस्कतयानुपयुक्तो ऽपश्यंस्तेभ्यो देवदत्त इति । अथवेदमनुमानम् । समस्तौन्द्रियेभ्यो भिन्नो जीवो ऽन्येनोपलभ्यान्येन विकारग्रहणात् । इह थोऽन्येनोपलभ्धान्येन विकारं प्रतिपद्यते स तस्माद्भिन्नो दृष्टः, यथा प्रवरप्रासादो 15 परिपूर्ववातायनेन रमणीमवलोक्यापरवातायनेन समायातायास्तस्याः करादिना कुचस्पर्शादिविकारमुपदर्शयन्देवदत्तः । तथा चायमात्मा चक्षुषाम्लोकामनन्तं दृष्ट्वा रसनेन हजामलाला- स्रवादिकं विकारं प्रतिपद्यते । तस्मात्तयोर्भिन्न इति । श्रथवेन्द्रियेभ्यो व्यतिरिक्त श्रात्मा श्रन्येनोपलभ्यान्येन ग्रहणात् । दूह 20 यो घटादिकमन्येनोपलभ्यान्येन गृह्णाति स ताभ्यां भेदवान् दृष्टः, यथा पूर्ववातायनेन घटमुपलभ्यापरवातायनेन गृहानस्ताभ्यां देवदत्तः । ग्टहाति च चक्षुषोपलभ्धं घटादिकमर्थ
१६०