________________
जैनमतम् । .
१५८
मनुष्यशरीरस्यौषधप्रयोगाइद्धिहानिक्षतभुमसरोहणनि, तथा वनस्पतिशरीरस्थापि। तथा, यथा मनुष्यशरीरस्य रमायनखेहाद्युपयोगाद्विशिष्टकान्तिरसाबलोपचयादि, तथा वनस्पतिशरीरस्यापि विशिष्टेष्टनभोजलादिसेकाद्विशिष्टरमवीर्यखिग्धत्वादि। तथा, यथा स्त्रीशरीरस्य तथाविधदौहदपूरणात्पुत्रादि: 5 प्रसवनं, तथा वनस्पतिशरीरस्थापि तत्पूरणात्पुष्पफलादिप्रसवनमित्यादि । तथा च प्रयोगः । वनस्पतयः सचेना बालकुमारवृद्धावस्था-१-प्रतिनियतवृद्धि-२-खापप्रबोधस्पादिहेतुकोलामसंकोचायोपसर्पणादिविशिष्टानेकक्रिया-३-छिन्नावयवनानि -४-प्रतिनियतप्रदेशाहारग्रहण-५-वृक्षायुर्वेदाभिहितायुष्कष्टा- 10 निष्टाहारादिनिमित्तकवृद्धिहानि-[६-] ७- आयुर्वेदोदितततद्रोग -८- विशिष्टौषधप्रयोगसंपादितप्रवृविहानिक्षतभुनसरोहण - ६ - प्रतिनियतविशिष्टशरीररसवौर्यस्निग्धत्वरूक्षत्व -१०विशिष्टदौहदा-११-दिमत्त्वान्यथानुपपत्तेः, विशिष्टस्त्रीशरीरवत् । अथवैते हेतवः प्रत्येक पक्षण सह प्रयोक्तव्या अयं वा संग्ट- 15 होतोतार्थः प्रयोगः । सचेतना वनस्पतयो जन्मजरामरणरोगादौनां समुदितानां मद्भावात्, स्त्रीवत् । अत्र समुदितानां जन्मादौनां ग्रहणात् “जातं तदधि" इत्यादिव्यपदेशदर्शनादृध्यादिभिरचेतनैर्न व्यभिचारः शङ्ख्यः । तदेवं पृथिव्यादीनां सचेतनत्वं सिद्धम् । प्राप्तवचनादा सर्वेषां सात्मकत्वसिद्धिः ॥ 20
दौन्द्रियादिषु च कृमिपिपीलिकाभ्रमरमनुष्यजलचरस्थल. चरखचरपश्वादिषु न केषांचित्मात्मकत्वे विगानमिति । ये तु