________________
१५२
षड्दर्शनसमुच्चयः सटोकः ।
दिनीयदिनाधस्तनाभिलाषवन् । - तदिदमनुमानमाद्यस्तनाभिभाषस्थाभिलाषान्तरपूर्वकत्वमनुमापयदर्थापत्या परलोकगामिनं जोवमाधिपति, तज्जन्मन्यभिखाषान्तराभावादिति स्थितम् ॥
तथा कूटस्थनित्यताप्यात्मनो न घटते, यता यथाविधः 5 पूर्वदशायामात्मा, तथाविध एव ज्ञानोत्पत्तिममये ऽपि भवेत्, तदा प्रागिव कथमेष पदार्थपरिच्छेदकः स्यात्, प्रतिनियतस्वरूपाप्रच्युतिरूपत्वात्कौटस्थ्यस्य । पदार्थपरिच्छेदे तु प्रागप्रमातुः प्रमाहरूपतया परिणामात्कुतः कौटस्थ्यमिति ॥
तथा संख्याभिमतमकत्वमप्यथुक्रम् । तथाहि । कर्तात्मा, 10 खकर्मफलभोत्कृत्वात् । यः खकर्मफलभोका म कर्तापि दृष्टः ।
यथा कृषीवलः । तथा सांख्यकल्पितः पुरुषो वस्तु न भवति, अकर्टकत्वात्, खपुष्पवत् । किं चात्मा भोक्ताङ्गीक्रियते स च भुजिक्रियां करोति न वा। यदि करोति तदापराभिः कियाभिः किमपराद्धम् । अथ भुजिक्रियामपि न करोति, 15 तर्हि कथं भोक्रेति चिन्यम् । प्रयोगश्चात्र । संसार्यात्मा भोक्ता
न भवति, अकर्तृत्वात्, मुकात्मवत् । अकभोकृत्वाभ्युपगमे च कतनामावताभ्यागमादिदोषप्रसङ्गः । प्रकृत्या कृतं कर्म न च तस्याः फलेनाभिसंबन्ध इति कृतनाशः । श्रात्मना च तन्त्र
हातमथ च तत्फलेनाभिसंबन्ध इत्यचतागम इत्यात्मनः कर्तृत्व-20 मङ्गोकर्तव्यम् ॥
तथा जडखरूपत्वमप्यात्मनो न घटते, तहाधकानुमानमझावात् । तथाहि। अनुपयोगखभाव प्रात्मा नार्थपरिच्छेदकर्ता,