________________
जैनमतम् ।
१५३ अचेतनत्वात्, मगनवत् । अथ चेतनासमवायात्परिछिनत्तौति चेत्, तर्हि यथात्मनश्चेतनासमवायाज्ञानत्वं, तथा घटस्थापि ज्ञाढत्वप्रसङ्गः, समवायस्य नित्यस्यैकस्य व्यापिनः सर्वत्रायविशेषादित्यत्र बहु वक्रव्यम् । तत्तु नोचते, ग्रन्थगौरवभयात् । ततथात्मनः पदार्थपरिच्छेदकलमङ्गोकुर्वाणश्चैतन्यखरूपताप्यस्य । गले पादिकान्यायेन प्रतिपत्तव्येति स्थितं चैतन्यलक्षणो जौव इति ॥ ___ जीवश्च पृथिव्यप्तेजोवायुवनस्पतिदित्रिचतुःपञ्चेन्द्रियभेदानवविधः। ननु भवतु जीवलक्षणोपेतत्वाद्दीन्द्रियादीनां जीवत्वं, पृथिव्यादीनां तु जीवलं कथं श्रद्धेयं, व्यक्ततल्लिङ्गस्यानुपलब्धे- 10 रिति चेत् । सत्यं ; यद्यपि तेषु व्यक्तं जीवलिङ्ग नोपलभ्यते, तथाप्यव्यकं तत्ममुपलभ्यत एव । यथा इत्पूरव्यतिमिश्रमदिरापानादिभिर्मूर्छिताना व्यक्तलिङ्गाभावे ऽपि मजीवत्वमव्यक्तलिङ्गेय॑वहियते, एवं पृथिव्यादौनामपि सजीवत्वं व्यवहरणीयम् । ननु मूर्छितेषच्छासादिकमव्यक्तं चेतनाशिङ्गमस्ति, न पुनः 15 पृथिव्यादिषु तथाविधं किंचिच्चेतनालिङ्गमस्ति । नैतदेवं, पृथिवीकाये तावत्वखाकारावस्थितानां लवण विद्रुमोपलादीनां समानजातीयाङ्कुरोत्पत्तिमत्त्वमीमांसाङ्करस्येव चेतनाचिन्हमस्येव । अव्यक्तचेतनानां हि संभावितैकचेतनालिङ्गानां वनस्पतीनामिव चेतनाभ्युपगन्तव्या। वनस्पतेश्च चैतन्यं विशिष्टतफल- 20 प्रदत्वेन स्पष्टमेव । साधयिष्यते च । ततो ऽव्यकोपयोगादिलक्षणसद्भावात्मचित्ता पृथिवौति स्थितम् । ननु च विद्रुम