________________
-
जैनमतम् । ..
१५१
ते मन्येव । तथाहि । ग्टहेणैव सह देवदत्तस्य संयोग विद्यते, अर्थान्तरेण त्वारामादिना वर्तत एव । ग्टहस्यापि देवदत्नेन यह संयोगो नास्ति, खट्वादिना तु विद्यत एव । एवं विषाणस्थापि खर एव समवाययोगो नास्ति, गवादावस्त्येव । सामान्यमपि द्वितीयचन्द्राभावश्चन्द्र एव नास्ति, अर्थातरे तु घटादावस्त्येव । 5. घटप्रमाणत्वमपि मुक्रासु नास्ति, अन्यत्र विद्यत एव । त्रिलोकेश्वरतापि भवत एव नास्ति, तीर्थकारादावस्त्येव । पञ्चसंख्याविशिष्टत्वमपि प्रतिषेधप्रकारेषु नास्ति, अनुत्तरविमानादावस्येवेत्यनया विवक्षया ब्रूमः “यनिषिध्यते तत्मामान्येन विद्यत एव"। न त्वेवं प्रतिजानीमहे यद्यत्र निषिध्यते तत्तत्रैवास्तौति येन 10 व्यभिचारः स्यादेवं मत एव जीवस्य यत्र क्वापि निषेधः स्थान पुनः सर्वत्रेति । तथास्ति देहेन्द्रियातिरिक्त प्रात्मा, इन्द्रियोपरमे ऽपि तदुपलब्धार्थानुस्मरणात्, पञ्चवातायनोपलधार्थानुस्मर्टदेवदत्तवत् । इति सिद्धमनुमानग्राह्य धात्मेति ॥ अनुमानग्राह्यत्वे सिद्धे तदन्त तत्वेनागमोपमानार्थापत्तिग्राह्यतापि 15 सिद्धा ॥ किं च “प्रमाणपञ्चकाभावेन" इत्यादि यदप्यवादि, तदपि मदिराप्रमादिविलमितमोदरं, यतो हिमवदुत्पलपरिणमादीनां पिशाचादीनां च प्रमाणपञ्चकाभावे ऽपि विद्यमानत्वादिति । अतो यत्र प्रमाणपञ्चकाभावस्तदमदेवेत्यनकान्तिकम् । इति सिद्धः प्रत्यवादिप्रमाणग्राह्य प्रात्मा । स च 20. विवृत्तिमान्परलोकयायो । तत्र चानुमानमिदम् । तदहातबालकस्याद्यस्तन्याभिलाषः पूर्वाभिलाषपूर्वकः, अभिलाषत्वात्,