________________
षड्दर्शनसमुच्चयः सटीका
न्तरनिमित्त उताहेतुक इति चयो गतिः । तत्र न तावदाद्यः पक्षः कचौकरणीयः, पृथिव्यादिसत्तायाः सर्वत्र सद्भावात् सर्वचापि कायाकारपरिणामप्रसङ्गः । तथाविधसाम्यादिभावसहकारिकारणवैकल्यान सर्वत्र तत्प्रसङ्ग इति चेत् । तन्न, यतः मोऽपि माम्यादिभावो न वस्वन्तरनिमित्तः, तत्त्वान्तरापत्ति5 प्रसङ्गात्; किं तु पृथिव्यादिमत्तामात्रनिमित्तः, अतस्तस्यापि सर्वत्राप्यविशेषेण भावप्रसङ्गात् कुतः सहकारिकारणवैकल्यमिति। अथ “वस्वन्तरनिमित्तः” इति पक्षस्तदण्ययुक्नं, तथाभ्युपगमे
जौवमिद्धिप्रसङ्गात् । अथाहेतकः, तर्हि मदाभावादिप्रसङ्गः, 10 नित्यं सत्त्वमसत्त्वं वा हेतोरन्यानपेक्षणदिति वचनात् । तत्र ..
वन्मते कायाकारपरिणामः संगच्छते । तदभावे तु दूरोत्मारितमेव प्राणापानपरिग्रहवत्त्वममौषां भूतानामिति चैतन्यं न भूतकार्यमित्यतो जौवगुण एव चेतनेत्यभ्युपगन्तव्यम् ।
किं च । गुणप्रत्यक्षवादात्मापि गुणो प्रत्यक्ष एव । प्रयोगी 15 यथा । प्रत्यक्ष श्रात्मा, स्मृतिजिज्ञासाचिकौर्षा जिगमिषासंश
यादिज्ञानविशेषाणं तद्गुणनां स्वसंवेदनप्रत्यक्षत्वात् । इह यस्य गुणाः प्रत्यक्षाः स प्रत्यक्षो दृष्टः, यथा घट इति । प्रत्यक्षगणश्च जौवः । तस्मात्प्रत्यक्षः ॥ अत्राह परः । अनैकान्तिको
ऽयं हेतुः, यत आकाशगुणः शब्दः प्रत्यक्षः, न पुनराकाशम् । 20 तदयुक्त, यतेो नाकाशगुणः शब्दः किं तु पुद्गलगुणः, ऐन्द्रि
यकत्वात्, रूपादिवत् । एतच पुगलविचारे समर्थयिष्यते । अवाह । ननु भवतु गुणानां प्रत्यचत्वात्तदभिन्नत्वागुणिनो ऽपि