________________
जैनमतम् ।
१४७
प्रत्यक्षतम् । किंतु देह एव ज्ञानादयो गुणा उपलभ्यन्ते । अतः स एव तेषां गुणौ युक्तः, यथा रूपादौनां घटः । प्रयोगो यथा । ज्ञानादयो देहगुणा एव, तत्रैवोपलभ्यमानत्वात्, गौरकृशस्थूलत्वादिवत् । प्रचोयते । प्रत्यनुमानबाधितो ऽयं पक्षाभामः । तच्चेदम् । देहस्य गुणा ज्ञानादयो न भवन्ति, तस्य । मूर्तत्वाच्चाक्षुषत्वाद्दा, घटवत् । अतः सिद्धो गुणप्रत्यक्षत्वाद्गुणी जीवो ऽपि प्रत्यक्षः। ततश्चाहंप्रत्ययग्राह्यं प्रत्यक्षमात्मानं निहुवानस्याश्रावणः शब्द इत्यादिवत् प्रत्यक्षविरुद्धो नाम पक्षाभासः । तथा वक्ष्यमाणात्मास्तित्वानुमानसनावात् नित्यः शब्द इत्यादिवदनुमानविरुद्धो ऽपि बाबालगोपालाङ्गनादिप्रसिद्धं चात्मानं 10 निराकुर्वतः “नास्ति सूर्यः प्रकाशकर्ता" इत्यादिवलोकविरोधः। "अहं नाह" चेति गदतः “माता मे बन्ध्या" इत्यादिवत् खवचनविरोधश्च । तथा प्रतिपादितयुक्त्यात्मनः स्वसंवेदनप्रत्यक्षत्वादत्यन्ताप्रत्यक्षवादिति हेतरप्यसिद्ध इति स्थितम् ॥ तथानुमानगम्यो ऽप्यात्मा । तानि चामूनि । जौवच्छरोरं प्रयत्नव- 15 ताधिष्ठितं, इच्छानुविधायिक्रियाश्रयत्वात्, रथवत् । १। श्रीत्रादौन्युपलब्धिमाधनानि कर्जप्रयोज्यानि, करणत्वात्, वास्यादिवत् । २ । देहस्यास्ति विधाता, श्रादिमत्प्रतिनियताकारवात्, घटवत् । यत्पुनरकर्टकं तदादिमत्प्रतिनियताकारमपि न भवति, यथाभ्रविकारः । यः खदेहस्य कर्ता स जीवः । 20 प्रतिनियताकारत्वं मेवादौनामप्यस्ति न च तेषां कश्चिविधातेति तैरनैकान्तिको हेतुः स्यात् । अतस्तावच्छेदार्थमादिम