________________
जैनमतम् ।
प्रचोचते सति । शुषिरे तत्र वातः सुतरां संभाव्यत एव । किं छ। यदि तत्र वायुवैकल्याच्चैतन्यस्याभावः, ततो बस्यादिभिः संपादिते वायौ तत्र चैतन्यमुपलभ्येत । न च तत्र तत्संपादिते ऽपि वायौ चैतन्यमुपलभ्यते पथ प्राणपानलक्षणवायोरभावान तत्र चैतन्यमिति चेत् । न, अन्वयव्यतिरेकानुविधायित्वाभाग प्राणापानवायोचैतन्यं प्रति हेतुता, यतो मरणा-5 अवस्थायां प्रचुरतरदीर्घश्वासोच्छ्रामसंभवे ऽपि रैतन्यस्यात्यन्तपरिक्षयः । तथा ध्यानस्तिमितलोचनस्य संवृतमनोवाकाययोगस्य निस्तरङ्गमहोदधिकल्पस्य योगिनो निरुद्धप्राणपानस्यापि परमप्रकर्षप्राप्तवेतनोपचयः समुपलभ्यते । अथ तेजसो ऽभावान मृतावस्थायां चैतन्यमिति चेत्, तर्हि तत्र तेजस्युपनौते मति 10 कथं न चेतनोपलभ्यते । किं च । मृतावस्थायां यदि वायुतेजसोरभावेन चैतन्याभावो ऽभ्युपगम्यते, तर्हि मृतशरीरे कियझेलागारं समुत्पन्नानां कम्यादौनां कथं चैतन्यम् । ततो यत्किंचिदेतत् । किं च । न चैतन्यं भूतमात्रकारणम् । तथा मति चैतन्यस्य भूतमात्रजन्यस्वभावत्वात् तेषामपि तन्जननस्वभावत्वात् 15 सर्वदा सर्वच घटादौ पुरुषादिष्विव व्यकचैतन्योत्पादो भवेत्, निमित्ताविशेषात् । एवं च घटादिपुरुषयोरविशेषः स्यात् । ननु कावाकारपरिणामप्राणपानपरियहवड्यो भूतेभ्यश्चैतन्यमुपलभ्यत इति वचनान पूर्वोक्तो ऽतिप्रमङ्गदोषावकाश इति चेत् । तत्र, त्वंबते कायाकारपरिणामस्यैवानुपपद्यमानत्वात् । तथाहि । स 20 काथाकारपरिणामः किं पृथियादिभूतमात्रनिबन्धन उत वस्व