________________
१४०
घड्दर्शनसमुच्चयः सटीकः ।
महान्वयव्यतिरेकाभावात् । मत्तमूर्छितप्रसुप्तानां तादृशशरीरसदावे ऽपि न तथाविध चैतन्यमुपलभ्यते । दृश्यते च केषांचित् कृशतरशरोराणामपि चेतनाप्रकर्षः, केषांचित् स्थलदेहानामपि
तदपकर्षः । ततो न तदन्वयव्यतिरेकानुविधायि चैतन्यम् । । अतो न तत्कार्यम् । किं च । न हि चैतन्यस्य भूतकार्यत्वे किमपि प्रमाणमुपलभामहे । तथाहि । न तावत्प्रत्यक्ष, अतीन्द्रियविषये तदप्रवर्तनात् । न अत्यन्त्रमनुत्पन्न वा चैतन्यं भूतानां कार्यमिति प्रत्यक्षव्यापारमुपैति, तस्य स्खयोग्यसन्निहि
तार्थग्रहणरूपत्वात्, चैतन्यस्य चामूर्तत्वेन तदयोग्यत्वात् । न च 10 “भूतानामहं कार्य” इत्येवमात्मविषयं भूतकायत्वं प्रत्यक्षमवग
तुमलं, कार्यकारणभावस्थान्वयव्यतिरेकसमधिगम्यत्वात् । न च भूतचेतन्यातिरिक्तः कश्चिदन्वयौ तदुभयान्वयव्यतिरेकज्ञाताभ्यपगम्यते, आत्ममिडिप्रमङ्गात् ॥ तथा नानुमानेनापि चैतन्यस्य
भृतकार्यत्वं प्रतीयते, तस्थानभ्युपगमात्, प्रत्यक्षमेवैकं प्रमाणं 15 नान्यदिति वचनात् । अभ्युपगमेऽपि न ततो विवक्षितार्थप्रतौ
तिमिद्धिः । ननु कायाकारपरिणतेभ्यो भूतेभ्यश्चैतन्यं समुत्पद्यते, तद्भाव एव चैतन्यभावात्, मद्याङ्गेभ्यो मदशक्रिवदित्याद्यनुमानाभवत्येव चैतन्यस्य भूतकार्यत्वसिद्धिरिति चेत् । न, नद्भाव एव तद्भावादिति हेतोरनेकान्तिकत्वात्, मृतावस्थायां 20 तद्भावेऽपि चैतन्यस्थाभावात् । स्यादेतत्, पृथिव्यप्तेजोवायुलक्ष
पभूतचतुष्टयसमुदयजन्यं हि चैतन्यं, न च मृतशरौरे वायुरस्ति, ततस्तदभावात्तच चैतन्याभाव इति न नत्र व्यभिचारः ।