________________
जैनमतम् ।
१४३
प्रमाणाभावात्" इत्यादि, तदसमौक्षिता भिधानं, प्रत्यक्षस्यैव तत्मनावे प्रमाणस्य सद्भावात् । तथाहि । “सुखमहमनुभवामि" इत्यन्योन्यविविक्तज्ञेयज्ञानज्ञानोल्लेखी प्रतिप्राणि स्वसंवेद्यः प्रत्ययो जायमानः संवेद्यते । न चायं मिथ्या, बाधकाभावात् । नापि मंदिग्धः, उभयकोटिसंस्पर्शाभावात् । न चेत्यंभूतस्यास्थानालम्ब- 5 नत्वं युक्त, रूपादिज्ञानानामप्यनालम्बनत्वप्रसङ्गात् । नापि शरीरालम्बनत्वं, बहिःकारणनिरपेक्षान्तःकरणव्यापारणोत्पत्तेः। न खलु शरीरमित्थंभूताहंप्रत्ययवेद्यं, बहिःकरणविषयत्वात् । अतः शरीरातिरिक्तः कश्चिदेतस्थालम्बनभूतो ज्ञानवानर्थो ऽन्युपगन्तव्यः, तम्यैव ज्ञाहत्वोपपत्तेः । स च जीव एवेति सिद्धः 10 वसंवेदनवेद्याहंप्रत्ययोत्पादयुक्तः, न त्वचेतनः प्रत्यक्षलक्ष्य प्रात्मा ॥ तथा यदयुक्त "चेतनायोगेन म चेतनत्वाच्छरौरस्यैवाहप्रत्ययः" इत्यादि, तदपि प्रलापमात्रं, यतश्चेतनायोगे ऽपि स्वयं चेतनस्यैवाहंप्रत्ययोत्पादो युक्तः, न त्वचेतनस्य । यथा परःमहसप्रदीपप्रभायोगे ऽपि स्वयमप्रकाशस्वरूपस्य घटस्य प्रकाशकत्वं न दृष्टं, 15 किं तु प्रदीपस्यैव, एवं चेतनायोगे ऽपि न स्वयमचेतनस्य देहस्य जाहत्वं, किं त्वात्मन एवेति तस्यैव चाहंप्रत्ययोत्पादः । यो ऽपि "स्थूलोऽहं” “कशोऽहं" इत्यादिप्रत्ययः समुल्लमति, मोऽग्यात्मोपकारकत्वेन गरौरे जायमान औपचारिक एव, अत्यन्तोपकारके भूत्ये "अहमेवायं” इति प्रत्ययवत् ॥ तथा 20 शरीरस्यैव चैतन्यं प्रति “कर्वत्" इत्यादि यदप्यवादि वादिअवेण, तदप्यन्मत्तवचनरचनामाचमेव, चेतनायाः शरीरेण