________________
षडदर्शनसमुच्चयः सत्यैकः ।
देवदत्तवत्" इति यतो हन्त देवदत्ते दृष्टान्तधर्मिणि सामान्येन देशान्तरप्राप्तिर्गतिपूर्विका प्रत्यक्षेणैव निश्चिता । सूर्ये तां तथैव प्रमाता माधयतौति युक्रम् । न चैवमत्र क्वचिदपि दृष्टान्ते जीवसत्त्वेनाविनाभूतः कोऽपि हेतुरध्यक्षेणोपलक्ष्यत 5 दूत्यतो न सामान्यता दृष्टादप्यनुमानात गतिरिति ॥ २ ॥ तथा नाप्यागमगम्य श्रात्मा । श्रविसंवादिवचनाप्तप्रणीतत्वेन ह्यागमस्य प्रामाण्यम् । न चैवंभूतमविसंवादिवचनं कंचनाप्याप्तमुपलभामहे, यस्यात्मा प्रत्यक्ष इति । श्रनुपलम्भमानाश्च कथमात्मानं विप्रलभेमहि । किं चागमाश्च सर्वे परस्पर विरुद्धप्ररूपिणः । 10 ततश्च कः प्रमाणं कश्वाप्रमाणमिति संदेहदावानलज्वालावलीढमेवागमस्य प्रामाण्यम् । ततश्च नागमप्रमाणादप्यात्मसिद्धिः ॥ ३ ॥ तथा नोपमानप्रमाणोपमेयो ऽप्यात्मा । तत्र हि यथा गौस्तथा गवय इत्यादाविव सादृश्यमसंनिकृष्टे ऽर्थे बुद्धिमुत्पादयति । न यात्र त्रिभुवनेऽपि कश्चनात्मसदृशः पदार्थो ऽस्ति यद्दर्शनादा15 त्मानमवगच्छामः । कालाकाशदिगादयो जीवतुल्या विद्यन्त एवेति चेत् । न तेषामपि विवादास्पदोभूतत्वेन तदंहिबद्धत्वात् ॥ ४ ॥ तथार्थापत्तिमाध्यो ऽपि नात्मा । न हि दृष्टः श्रुता ar at star श्रममन्तरेण नोपपद्यते, यद्वलात्तं साधयामः । ततः समुपलम्भक प्रमाणविषयातीतत्वात्तत्प्रतिषेधसाधकाभावा20 ख्यप्रमाणविषयीकृत एव जीव इति स्थितम् ॥
१४३
अत्र प्रतिविधीयते । यत्तावदुक्त' 'दूह कायाकारपरिणतानि भूतान्येवोपलभ्यन्ते न पुनस्तद्व्यतिरिक्त श्रात्मा, तत्सद्भावे