________________
घडदर्शनसमुच्चयः सटीकः ।
वच्छरौरविषयत्वस्यैवोपपत्तेः । न खलु तत्प्रत्ययस्यात्मालम्बन - खमस्ति, श्रात्मनि स्थौल्यादिधर्मासंभवात् । तथा “घटमहं वेधि" इत्यस्यापि प्रत्ययस्य न गरौरादन्यो भवत्परिकल्पितः कञ्चनाप्यात्मालम्बनत्वेन खप्ने ऽपि प्रतीयते । अप्रतीतस्यापि 5 कल्पने कल्पनागौरवं प्रतिनियतवस्तुव्यवस्थाया प्रभावश्च स्यात् । न च “जडरूपस्य शरीरस्य घटादेरिवाइंप्रत्ययो ऽनुपपन्नः" इति वाच्यं, चेतनायोगेन तस्य सचेतनत्वात् । न च "मा चेतना जौवकर्तृका” इति वाच्यं, तस्याप्रतीतत्वात् । तत्कर्तृत्व
मयुक्त, खपुष्पादेरपि तत्प्रसङ्गात् । ततः प्रमिद्धत्वाच्छरोरस्यैव 10 चैतन्यं प्रति कर्तृत्वं यत्रं, तदन्वयव्यतिरेकानुविधाथित्वाच । प्रयोगश्चात्र । यत्खलु यस्ान्वयव्यतिरेकावनुकरोति तत्तस्य कार्य, यथा घटो मृत्पिण्डस्य । शरीरस्यान्वयव्यतिरेकावनुकरोति च चैतन्यम् । तस्मात्तत्कर्तृत्वम् । अन्वयव्यतिरेकममधि
गम्यो हि सर्वत्र कार्यकारणभावः । तौ चात्र विद्येते, मति 15 शरीरे चैतन्योपलब्धेः, असति चानुपलब्धेः । न च "मृतशरोरे
चैतन्यानुपलब्धेस्तदन्वयव्यतिरेकानुविधायित्वमसिद्धं" इति वाच्छ, मृतावस्थायां वायुतेजसोरभावेन शरीरस्यैवाभावात्, विशिष्टभूतसंयोगस्यैव शरीरत्वप्रतिपादनात् । न च शरौराकारमाचे
चैतन्योत्पत्तियुक्ता, चित्रलिखिततरङ्गमादिवपि चैतन्योत्पत्ति20 प्रसङ्गात् । ततः सिद्धं गरौरकार्यमेव चैतन्यम् । ततश्च चैतन्य
महिते शरीर एवाइंप्रत्ययोत्पत्तिः प्रसिद्धा। इति न प्रत्यक्षप्रमेय प्रात्मा। ततथाविद्यमान एव । प्रयोगवाच ।