SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ जैनमतम् । भिन्नाभित्र एवाभ्यपगन्तव्यः । अनेन धर्मधर्मिणोवैशेषिकाधभिमतं भेदैकान्तं सौगतस्वीकृतं चाभेदैकान्तं प्रतिक्षिपति, सौगतेनापि बुद्धिक्षणपरंपरारूपस्यात्मनो धर्मित्वेन स्वीकारात् ॥ तथा विविधं वर्तनं विवृत्तिनरामरादिपर्यायान्तरानुसरणं, तद्वान् विवृत्तिमान् । अनेन भवान्तरगामिनमात्मानं प्रति 5 विप्रतिपन्नांश्चार्वाकान् कूटस्थनित्यात्मवादिनी नैयायिकादौनिरस्यति ॥ तथा शुभाशुभानि कर्माणि करोतीति शुभाशुभकर्मकर्ता ॥ तथा स्वकृतस्य कर्मणो यत्फलं सुखादिकं, तस्य माक्षाभोक्ता च । चकारो विशेषणानां समुच्चये । एतेन विशेषपदयेनाकारमुपचरितवृत्त्या भोक्तारं चात्मानं मन्यमानानां 10 सांख्यानां निरासः ॥ तथा चैतन्य साकारनिराकारोपयोगात्मक लक्षणं खरूपं यस्य, म चैतन्यलक्षणः । एतेन जडस्वरूपो नैयायिकादिसंमत प्रात्मा व्यवच्छिद्यते । एवंविशेषणे जौवः समाख्यात इत्यत्रापि संबन्धनौयमिति ॥ .. अत्र चार्वाकाचर्चयन्ति यथा। दह कायाकारपरिणतानि 15 चेतनाकारणभूतानि भूतान्येवोपलभ्यन्ते। न पुनस्तेभ्यो व्यतिरिको भवान्तरयायौ यथोक्तलक्षणः कश्चनाप्यात्मा, तत्सद्भावे प्रमाणभावात् । तथाहि । भूतव्यतिरिक्तात्मसद्भावे किं प्रत्यक्षं प्रमाणं प्रवर्ततोतानुमानम् । न तावत्प्रत्यक्षं, तस्य प्रतिनियतेन्द्रियसंबद्धरूपादिगोचरतया तद्विलक्षणे जौवे प्रवृत्त्यनुपपत्तेः । न च 20 “घटमहं वेद्मोत्यहंप्रत्यये ज्ञानकर्तृतयात्मा भूतव्यतिरिक्तः प्रतिभाति" इत्यभिधातव्यं, तस्य "स्थूलो ऽहं” “कृगोऽह" इत्यादि
SR No.022457
Book TitleShad Darshan Samucchay
Original Sutra AuthorN/A
AuthorLuigi Suali
PublisherAsiatic Society
Publication Year1905
Total Pages196
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy