________________
१३०
घड्दर्शनसमुच्चयः सटीकः ।
षबन्धनस्य प्राप्तनिजखरूपस्यात्मनो लोकान्ते ऽवस्थानं मोक्षः, बन्धविप्रयोगो मोक्ष इति वचनात् । ८ ॥ तानि नवसंख्यानि तत्त्वानि तन्मते जैनमते ज्ञातव्यानि ॥
अथ शास्त्रकार एव तत्त्वानि क्रमेण व्याख्याति । तत्र 5 यथोद्देशं निर्देश इति न्यायात् प्रथमं जीवतत्त्वमाह ।
तत्र ज्ञानादिधर्मेभ्यो भिन्नाभिन्नो वित्तिमान् । शुभाशुभकर्मकर्ता भोक्ता कर्मफलस्य च ॥४८॥
चैतन्यलक्षण जौवो यश्चैतविपरीतवान्। - अजीवः स समाख्यातः पुण्यं सत्कर्मपुङ्गलाः॥४६॥ 10 युग्मम् ॥ तत्रेति निर्धारणार्थः। ये ज्ञानदर्शनचारित्रसुखदुः
खवौर्यभव्याभव्यत्वसत्त्वप्रमेयत्वद्रव्यत्वप्राणधारित्वक्रोधादिपरिणत - त्वसंसारित्वमिद्धत्वपरवस्तुव्यावृत्तत्वादयः खपरपर्याया जीवस्य भवन्ति, ते ज्ञानादयो धर्मा उच्यन्ते । तेभ्यो जौवो न भिन्नो
नाप्यभिन्नः, किं तु जात्यन्तरतया भिन्नाभिन्नः। यदि हि 15 ज्ञानादिधर्मेभ्यो जौवो भिन्नः स्यात्, तदा “अहं जानामि",
"अहं पश्यामि", "अहं ज्ञाता", "अहं द्रष्टा", "अहं सुखितः", "अहं भव्यः" चेत्याद्यभेदप्रतिभासो न स्यात् । अस्ति च सर्वप्राणिनां सो ऽभेदप्रतिभासः । तथा यद्यभिन्नः स्यात्, तदा “अयं धर्मों",
"एते धर्माः' इति भेदबुद्धिर्न स्यात् । अस्ति च सा । अथवा20 भिवतायां ज्ञानादिसर्वधर्माणमैक्यं स्यात्, एकजीवाभिन्नत्वात्। तथा च "मम ज्ञानं मम दर्शनं चास्ति” इत्यादिज्ञानादिमियोभेदपतौतिन स्यात् । अस्ति च मा। ततो ज्ञानादिधर्मेभ्यो