SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ १३२ घडदर्शनसमुच्चयः सटीकः । यदुनं "प्रमाणपञ्चकाप्रवृत्त्याभावप्रमाणविषयित्वं", यदप्यनैकान्तिकं, हिमवत्पलपरिमाणपिशाचादीनां प्रमाणपञ्चकाप्रवृत्तावष्यभावप्रमाणगोचरत्वाभावादिति “प्रमाणपञ्चकं यत्र" इत्या द्यपास्तं द्रष्टव्यम् ॥ यच्चोक “सर्व वस्तुजातं केन प्रमाणेन" 5 इत्यादि, तदप्ययुक्त, सकलज्ञानावरणविलयोत्थाविकलकेवलालोकेन सकललोकालोकादिवस्तुवेत्तत्वात्सर्वज्ञस्येति। यच्चोतं "अशयादिरमाखाद" इत्यादि, तदपि परं प्रत्यसूयामात्रमेव व्यननि, सर्वज्ञस्यातीन्द्रियज्ञानित्वेन करणव्यापारमिरपेक्षत्वात् जिहेन्द्रियव्यापारनिरपेक्षं यथावस्थितं तटस्थतवैव वेदनं, न तु 10 भवदत्तव्यापारमापेक्षं वेदनमिति । यदप्यवादि “कालतोऽनाद्यनन्तः संसारः” इत्यादि, तदप्यसम्यक्, युगपत्संवेदनात् । न च तदसंभवि दृष्टत्वात् । तथाहि । यथा खभ्यस्तमकलशास्वार्थः सामान्येन युगपत्प्रतिभामते, एवमशेषविशेषकलितो ऽपि । यथा चोक्तम् । 15 यथा मकलशास्त्रार्थः स्वभ्यस्तः प्रतिभासते । .. मनस्येकक्षणेनैव तथानन्तादिवेदनम् ॥ १ ॥ इति ॥ यचोक्तं "अतीतानागत” इत्यादि, तदपि स्वप्रणेतरज्ञानित्वमेव ज्ञापयति, यतो यद्यपीदानौं तनकालापेक्षयातीतानागत वस्तुनी असती, तथापि यथातौतमतीतकाले ऽवर्तिष्ट यथा च 20 भावि वर्तिव्यते, तथैव तयोः साक्षात्कारित्वेन न कचनापि दोष इति सिद्धः सुखादिवत्सुनिश्चितासंभवबाधकप्रमाणत्वात् सर्वज्ञ इति ॥
SR No.022457
Book TitleShad Darshan Samucchay
Original Sutra AuthorN/A
AuthorLuigi Suali
PublisherAsiatic Society
Publication Year1905
Total Pages196
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy