________________
जैनमतम् ।
।
सत्येव संभवात् । त्वतौयपचे ऽप्यनैकान्तिकः, वक्तृत्वमात्रस्य सर्वज्ञत्वेन विरोधासंभवात् ॥ एतेन सुगतादिधर्मपचो ऽपि प्रत्याख्यायि, प्रोक्तदोषानुषङ्गाविशेषात् । किं च प्रतिनियतसुगतादेः सर्वज्ञतानिषेधे ऽन्येषां तद्विधिरवश्यंभावी, विशेषनिषेधस्य शेषाभ्यनुज्ञानान्तरीयकत्वात्, “श्रयमत्राह्मणः” इत्यादिवदिति ॥ 5 अथ सर्वपुरुषानुररौक्कृत्य तेषामसर्वज्ञता वक्तृत्वादेः साध्यते । तन्न, विपचात्तस्य व्यतिरेकासिया संदिग्धविपक्षव्यावृत्तिकत्वात् सर्वज्ञो ऽपि भविष्यति वक्तापीति । तन्नानुमानं सर्वज्ञबाधकम् ॥
नाप्यागमः । स हि पौरुषेयो ऽपौरुषेयो वा । न तावद - 10 पौरुषेयः, तस्याप्रामाण्यात्, वचनानां गुणवद्वक्त्रधीनतया प्रामाण्योपपत्तेः । किं चास्य कार्य एवार्थे प्रामाण्याभ्युपगमान्न सर्वतः स्वरूपनिषेधे प्रामाण्यं स्यात् । न चाशेषज्ञांनाभावसाधकं किंचिद्वेदवाक्यमस्ति, " हिरण्यगर्भः सर्वज्ञः" इत्यादिवेदवाक्यानां तत्प्रतिपादकानामनेकशः श्रवणात् ॥
नाप्युपमानं तद्वाधकम् । तत्खलुपमानोपमेययोरध्यचत्वे सति गोगवयवत् स्यात् । न चाशेषपुरुषाः सर्वज्ञश्च केनचिदृष्टाः, येन "शेषपुरुषवत्सर्वज्ञः सर्वज्ञवदा ते" इत्युपमानं स्यात् । शेषपुरुषदृष्टौ च तस्यैव सर्वज्ञत्वापत्तिरिति ॥
नाप्यर्थापत्तिस्तद्वाधिका, सर्वज्ञाभावमन्तरेणानुपपद्यमानस्य 20 कस्याप्यर्थस्याभावात्, वेदप्रामाण्यस्य च सर्वज्ञे सत्येवोपपत्तेः । न हि गुणवद्वतुरभावे वचसां प्रामाण्यं घटत इति न सर्वज्ञे बाधकसंभवः । तदभावे च प्रमाणपञ्चकाप्रवृत्तिरप्यमिद्धा । तथा
१३१
15