________________
१२०
षड्दर्शनसमुच्चयः सटोकः +
1
विधिः कचित्कदाचित्तदभावं साधयेन पुनः सर्वत्र सर्वदा वा, तुषार स्पर्शव्यापकशीत विरुद्धाग्निविधानात्, क्वचित्कदाचित्तुषारस्पर्शनिषेधवत् । कारणविरुद्धविधिरपि क्वचित्कदाचिदेव सर्वज्ञाभावं साधयेत् न सर्वत्र । सर्वज्ञत्वस्य हि कारणमशेषकर्मचयः । 5 तद्विरुद्धस्य कर्माचयस्य च विधिः क्वचित्कदाचिदेव सर्वज्ञाभावमाधकः, रोमहर्षादिकारणशीतविरुद्धाग्निविधानात्, क्वचित्कदाचिच्छौतकार्य रोमहर्षादिनिषेधवत् । न पुनः साकल्येन, सकलकर्माप्रचयस्य वाकयेन संभवाभावात् क्वचिदप्यात्मनि तस्याग्रे प्रसाधथिष्यमाणत्वात् । नापि विरुद्ध कार्यविधिः । 10 सर्वज्ञत्वेन हि विरुद्धं किंचिज्जलम् । तत्कार्य नियतार्थविषयं वचः, तस्य विधिः । स च न सामस्त्येन सर्वज्ञाभावं माधयेत् । यचैव हि तदिधिस्तत्रैवास्य तदभावसाधनसमर्थत्वात्, शौतविरुद्ध दहनकार्यधूमविशिष्टप्रदेश एव शौतस्पर्श निषेधवत् । तन्न विरुद्धविधिरपि सर्वविदो बाधकः ॥ नापि वक्तृत्वादिकं, 15 सर्वज्ञमत्त्वानभ्युपगमे तस्यानुपपत्त्या सिद्धत्वात् तदुपपत्तौ च स्ववचनविरोधो नास्ति सर्वज्ञो वक्तृत्वादिधर्मोपेतश्चेति । तन सर्वज्ञस्यासत्त्वं कुतो ऽपि हेतोः साधयितुं शक्यम् ॥ नाप्यपर्व - ज्ञत्वं साध्यं सर्वज्ञो ऽसर्वज्ञ इत्येवं विरोधस्यात्राप्यविशिष्टत्वात् । किं चासर्वज्ञत्वे साध्ये सर्वज्ञस्य प्रमाणविरुद्धार्थवत्वं १ 20 तद्विपरीतं २ वक्तृत्वमाचं ३ वा हेतुत्वेन विवचितम् । प्रथमो ऽसिद्धो हेतु:, सर्वज्ञस्य तथाभूतार्थवकृत्वासंभवात् । द्वितीयपचे तु विरुद्धः, दृष्टेष्टाविरुद्धार्थवकृत्वस्य सर्वज्ञले