________________
जैनमतम् ।
१३३
अथ दिक्पटाः प्रकटयन्ति । ननु भवतु सुनिश्चितासंभवहाधकप्रमाणत्वात्मर्वजमिद्धिः । किं त्वस्य कवलाहार इति न मृष्यामहे । तथाहि । केवलिनः कवलाहारो न भवति, तत्कारणाभावात्, न च कारणाभावे कार्यस्योत्पत्तिः, अतिप्रमतः । न च तत्कारणाभावो ऽसिद्धः, आहारादाननिदान- 5 भूते वेदनादिषट्क एकस्यापि, तस्य केवलिन्यभावात् । तथाहि। न तावत्तस्य वेदनोत्पद्यते, तद्वदनीयस्य दग्धरज्जुस्थानिकत्वात् । मत्यामपि वेदनायां न तस्य तत्कृता पौडा, अनन्तर्वार्यत्वात् । वैवावृत्त्यकरणं तु भगवति त्रैलोक्यपूज्ये न संभवत्येवेति । ईर्यापथं पुनः केवलज्ञानावरणक्षयात् सम्यगवलोकयत्यसौ । संयमस्तु 10 तस्य यथाख्यातचरित्रिणो निष्ठितार्थत्वादनन्तवीर्यत्वाच नाहारकारणो भवति। प्राणवृत्तिरपि तस्यानपवायुष्ठादनन्नवीर्यवाचान्यथासिद्धेव । धर्मचिन्तावसरस्वपगतः, निष्ठितार्थत्वात् । तदेवं केवलिनः कावलिकाहारो बहुदोषदुष्टत्वान घटत इति ॥
अत्रोच्यते । तत्र यत्तावदूचानं “तत्कारणभावात्” इति 15 माधनं, तदसिद्धं, पाहारकारणस्य वेदनीयस्य केवलिनि तथैव मद्भावात् । तथा च किमिति मा शारीरौ स्थितिः प्राकनी न स्यात् । प्रयोगो ऽत्र । स्यात्केवलिनो भुक्तिः, समग्रसामग्रीकत्वात्, पूर्वभुक्तिवत् । मामग्री चेयं पर्याप्तत्वं वेदनौयोदय आहारपनिनिमित्तं तैजसशरीरं दीर्घायुष्वं चेति। मा च ममग्रापि केवलिनि 20 समस्ति। यदपि दधिरज्जुस्थानिकत्वं वेदनीयस्योच्यते, तदप्यनागमिकमयुक्तियुक्तं च, श्रागमे ऽत्यन्तमातोदयस्य केवलिनि प्रति