________________
घड्दर्शनसमुच्चयः सटीकः ।
समवायः कार्यत्वं, तस्य नित्यत्वेन तल्लक्षणयोगात् । तल्लक्षणले वा कार्यस्थापि क्षित्यादेस्तदन्नित्यत्वानुषङ्गात्, कस्य बुद्धिमद्धेतकत्वं साध्यते । किं च योगिनामशेषकर्मक्षये पक्षान्तःपातिन्यप्रवृत्तत्वेन भागासिद्धोऽयं हेतुः, तत्प्रक्षयस्य प्रध्वंसाभावरूपत्वेन 5 सत्तास्वकारणसमवाययोरभावात् ॥२॥ कृतमिति-प्रत्ययविषय
लमपि न कार्यत्वं, खननोत्सेचनादिना कृतमाकाशमित्यकार्य प्याकाशे वर्तमानत्वेनानैकान्तिकत्वात् ॥३॥ विकारित्वस्थापि कार्यत्वे महेश्वरस्यापि कार्यत्वानुषङ्गः, सतो वस्तुनो
ऽन्यथाभावो हि विकारित्वम् । तच्चेश्वरस्याप्यस्तीत्यस्यापरबुद्धि10 मद्धेतकत्वप्रसङ्गादनवस्था स्थात्, अविकारित्वे चास्य कार्यकारित्वमतिदुर्घटमिति ॥४॥
कार्यस्वरूपस्य विचार्यमाणस्थानुपपद्यमानत्वादसिद्धः कार्यवादित्ययं हेतुः। किं च । कादाचित्कं वस्तु लोके कार्यत्वेन प्रसि
छम् । जगतस्तु महेश्वरवत्मदासत्त्वात्कथं कार्यत्वम् । तदन्तर्गत15 तरुणादीनां कार्यत्वात्तस्थापि कार्यत्वे महेश्वरान्तर्गतानां बुद्ध्या
दौनां परमावाद्यन्तर्गतानां पाकजरूपादीनां च कार्यत्वात्, महेश्वरादेरपि कर्यत्वानुषङ्गः । तथा चास्याप्यपरबुद्धिमद्धेतककल्पनायामनवस्थापसिद्धान्तश्चानुषज्येते । अस्तु वा यथा कथंचिज्ज
गतः कार्यत्वं, तथापि कार्यमात्रमिह हेतुत्वेन विवक्षितं तदि20 शेषो वा। यद्याद्यः, तर्हि न ततो बुद्धिमत्कर्ट विशेषसिद्धिः,
तेन समं व्याप्यसिद्धेः । किं तु कर्तमामान्यस्य, तथा च हेतोरकिंचित्करत्वं माध्यविरुद्धमाधनाविरुद्धलं वा । ततः कार्यलं