________________
जैनमतम् ।
तदप्ययुक्, यतः प्रामाणिकमितरं कपेक्ष्येदमुच्यते । यदौतरं, तर्हि धूमादावयसिद्धत्वानुषङ्गः। प्रामाणिकस्य तु नासिद्धत्वं, कार्यत्वस्य बुद्धिमत्कर्टपूर्वकत्वेन प्रतिपन्नाविनाभावस्य चित्यादौ प्रसिद्धेः, पर्वतादौ धूमादिवत् । न च यावन्तः पदार्थाः कृतकाः, तावन्तः कृतबुद्धिमात्मन्या विर्भावयन्तौति नियमोऽस्ति, 5 खातप्रतिपूरितायां भुयक्रियादर्शिनः कृतबुङ्युत्पादाभावात् । किं च बुद्धिमत्कारणभावो ऽत्रानुपलब्धितो भवता प्रसाध्यते । एतच्चायुक्तं, दृश्यानुपलब्धेरेवाभावसाधकत्वोपपत्तेः। न चेयमत्र संभवति, जगत्कर्तरदृश्यत्वात् । अनुपलब्धस्य चाभावमाध्यत्वे पिशाचादेरपि तत्प्रसक्तिः स्यादिति ॥
10 अत्र प्रतिविधीयते । तत्र यत्तावत् क्षित्यादेबुद्धिमद्धेतकवसिद्धये कार्यत्वसाधनमुकं, तत् किं सावयवत्वं १ प्रागमतः खकारणमत्तासमवायः २ कृतमिति-प्रत्ययविषयत्वं ३ विकारित्वं ४ वा स्यात् ॥ यदि मावयवत्वं, तदेदमपि किमवयवेषु वर्तमानत्वं १ अवयवैरारभ्यमाणत्वं २ प्रदेशवत्वं ३ मावयवमिति- 15 बुद्धिविषयत्वं ४ वा । तत्राद्यपक्षेऽवयवसामान्येनानैकान्तिको ऽयं हेतुः, तयवयवेषु वर्तमानमपि निरवयवमकार्य च प्रोच्यते । द्वितीयपक्षे तु साध्यसमो हेतुः। यथैव हि चित्यादेः कार्यत्वं साध्यं, एवं परमाखाद्यवयवारभ्यत्वमपि । हतीयोऽप्याकाशनानैकान्तिकः, तस्य प्रदेशवत्त्वेऽप्यकार्यत्वात् । प्रसाधयिष्यते चायतोऽस्य प्रदेश- 20 वत्त्वम् । चतुर्थकक्षायामपि तेनैवानेकान्तो न चास्य निरवयवत्वं, व्यापित्वविरोधात्परमाणुवत् ॥१॥ नापि प्रागमतः खकारणमत्ता