________________
षडदर्शनसमुच्चयः सटोकः ।
सहचरत्वमात्रेण कारणत्वे वहिपैङ्गल्यस्थापि धूम प्रति कारणत्वप्रमङ्गः स्यात् । विद्यमानेऽपि हि शरीरे ज्ञानादौनां समस्तानां व्यस्तानां वाभावे कुलाखादावपि कर्तत्वं नोपलभ्यते । प्रथमं हि कार्योत्पादककारणकलापज्ञानं, ततः करणेच्छा, ततः प्रयत्नः, 5 ततः फलनिष्पत्तिरित्यमोषां चयाणां समुदितानामेव कार्यकर्ट सर्वत्राव्यभिचारः। सर्वज्ञता चास्याखिलकार्यकर्तृत्वात्मिद्धा। प्रयोगोऽत्र । ईश्वरः सर्वज्ञोऽखिलचित्यादिकार्यकर्तत्वात् । यो हि यस्थ कर्ता म तदुपादानाद्यभिज्ञः, यथा घटोत्पादकः
कुलालो मृत्पिण्डाद्यभिज्ञः । जगतः कर्ता चायम् । तस्मात्सर्वज्ञ 10 इति । उपादानं हि जगतः पार्थिवाप्यतैजसवायवीयलक्षणा
चतुर्विधाः परमाणवः, निमित्तकारणमदृष्टादि, भोक्रात्मा, भोग्यं तन्वादि । न चैतदनभिज्ञस्य चित्यादौ कर्तृत्वं संभवत्यस्मदादिवत् । ते च तदीयज्ञानादयो नित्याः, कुलालादि
ज्ञानादिभ्यो विलक्षणत्वात् । एकत्वं च चित्यादिकतरनेक15 कर्तृणामेकाधिष्ठनियमितानां प्रवृत्त्युपपत्तेः सिद्धम् । प्रसिद्धा
हि स्थपत्यादौनामेकसूत्रधारपरतन्त्राणां महाप्रासादादिकार्यकरणे प्रवृत्तिः। न च “ईश्वरस्यैकरूपत्वे नित्यत्वे च कार्याणां कादाचित्कत्वं वैचित्र्यं च विरुध्यते” इति वाच्यं, कादाचित्कविचित्रमहकारिलाभेन कार्याणां कादाचित्कत्ववैचियसिद्धौ 20 विरोधासंभवात् । ननु क्षित्यादेर्बुद्धिमद्धेतकत्वेऽक्रियादर्शिनोऽपि
जौर्णकूपादिष्विव कृतबुद्धिरुत्पद्यते, न चात्र मा उत्पद्यमाना दृष्टा ; अतो दृष्टान्तदृष्टस्य हेतोर्धर्मिण्यभावादसिद्धत्वम् ।