________________
जैनमतम् ।
इत्यलं विस्तरेण । तदेवमेभिश्चतुर्भिरतिशयः स नाथी मुनश्च यो देवो भवति, स एव देवत्वेन अयणीयः, म एव च परां सिद्धि प्रापयति, न. पुनरितरः सरागो भवेऽवतारवांश्च देव इत्यावेदितं मन्तव्यम् ॥ ___ ननु मा भूत्सुगतादिको देवः, जगत्वष्टा खौश्वरः । किमिति नाङ्गीक्रियते । तत्साधकप्रमाणाभावादिति ब्रूमः । श्रथास्त्येव तत्माधकं प्रमाणम् । क्षित्यादिकं बुद्धिमत्कर्टक, कार्यत्वात्, घटादिवत् । न चायमसिद्धो हेतुः, शित्यादेः मावयवत्वेन कार्यत्वप्रसिद्धः। तथाहि। उर्वोपर्वततर्वादिकं सर्व कार्य, सावयवत्वात्, घटवत् । नापि विरुद्धः, निश्चितकर्ट के घटादौ 10 कार्यत्वदर्शनात् । नाप्यमेकान्तिकः, निश्चिताकटकेभ्यो व्योमादिभ्यो व्यावर्तमानत्वात् । नापि कालात्ययापदिष्टः, प्रत्यक्षागमाबाधितविषयत्वात् । न च वायं “घटक दिदृष्टान्तदृष्टासर्वज्ञत्वासर्वगतत्वकर्तृत्वादिधर्मानुरोधेन सर्वज्ञादिविशेषणविशिष्टसाध्यविपर्ययसाधनाविरुद्धो हेतर्दृष्टान्तश्च माध्यविकलो घटादौ 18 तथाभूतबुद्धिमतो ऽभावात्" इति, यतः माध्यमाधनयोर्विशेषेण याप्तौ ग्टह्यमाणयां सकलानुमानोच्छेदप्रसक्तिः, किं तु सामान्येमान्वयव्यतिरेकाभ्यां हि व्याप्तिरवधार्यते । तौ चामन्यायभिचाराच्च विशेषेषु ग्रहीतुं न शक्यौ । तेन बुद्धिमत्यर्वकत्वमात्रेण कार्यत्वस्थ व्याप्तिः प्रत्येतव्या, न गरौरित्वादिना । न खलु कर्तृत्व- 20 मामय्यां शरीरमुपयुज्यते, तयतिरेकेणापि ज्ञानेछाप्रयत्नाअपत्वेन च शरीरकरणे कर्तृत्वोपलम्भात् । अकिंचित्करस्थापि