________________
१.६
षडदर्शनसमुच्चयः सटीकः।
पाटलिपुत्रनगरं प्रस्थितः, स-मार्थश्चौरैरभिहतः। अयस्तचैव रहित इतश्चेतश्च धावन् वनान्तरस्थेन पङ्गुना दृष्टोऽभिहितच “भो भो अन्ध मा भेषोः, अहं पङ्गुर्गमनादिक्रियाविकलत्वे
नाक्रियश्चक्षुर्ध्या सर्व पश्यनस्मि, त्वं तु गमनादिक्रियावान 5 पश्यमि"। अन्धेनोचे । “रुचिरमिदम् । अहं भवन्तं स्कन्धे
करिष्यामि । एवमावयोर्वर्तनमस्तु” इति । ततोऽन्धेन पॉईष्टत्वगुणेन खं स्कन्धमधिरोपितो नगरं प्राप्य नाटकादिकं पश्यन् गौतादिकं चेन्द्रियविषयमन्यमप्युपलभमानो यथा मोदते, तथा पङ्गुकल्पः शुद्धचैतन्यस्वरूपः पुरुषोऽप्यन्धकल्पां जडां प्रकृति 10 मक्रियामाश्रितो बुद्दयध्यवमितं शब्दादिकं खात्मनि प्रति
विम्बितं चेतयमानों मोदते, मोदमानश्च प्रकृतिं सुखस्वभावां मोहामन्यमानः संसारमधिवमति ।
तर्हि तस्य कथं मुक्तिः स्यादित्याह। प्रकृतिवियोगो मोक्षः पुरुषस्य बतैतदन्तरज्ञानात् । 15 मानचितयं चाच प्रत्यक्षं लैङ्गिकं शाब्दम् ॥ ४३ ॥
बतेति पृच्छकानामामन्त्रणे । एतयोः प्रकृतिपुरुषयोर्यदतरं विवेकस्तस्य ज्ञानात्पुरुषस्य यः प्रश्तेवियोगो भवति, स मोक्षः । तथाहि।
. शुद्धचैतन्यरूपोऽयं पुरुषः परमार्थतः। 20 प्रकृत्यन्तरमज्ञात्वा मोहात्संसारमाश्रितः ॥ १ ॥
. ततः प्रकृतेः सुखदुःखमोहखभावाया यावन विवेकेन यहां,