________________
सांख्यमतम् ।
१०७
तावत्र मोक्षः, प्रकृतेर्विवेकदर्शने तु प्रवृत्तेरुपरताय प्रकृतौ पुरुषस्य स्वरूपेणावस्थानं मोच इति । मोचश्च बन्धविच्छेदाद्भवति । बन्धश्च प्राकृतिकवैकारिकदाक्षिणभेदात्रिविधः । तथाहि । प्रकृतावात्मज्ञानाद्ये प्रकृतिमुपासते, तेषां प्राकृतिको बन्धः । ये विकारानेव भूतेन्द्रिया हंकारबुद्धीः पुरुषबुद्ध्योपासतें, तेषां 5 वैकारिकः । दृष्टापूर्ते दाचिणः । पुरुषतत्त्वानभिज्ञो होष्टापूर्तकारी कामोपहतमना बध्यत इति ।
इष्टापूर्त मन्यमाना वरिष्ठं
नान्यच्छ्रेयो येऽभिनन्दन्ति मूढाः ।
नाकस्य पृष्ठे ते सुकृतेन भूत्वा
इमं लोकं हीनतरं वा विशन्ति ॥ इति ॥
बन्धाच्च प्रेत्यसंसरणरूपः संसारः प्रवर्तते । सांख्यमते च पुरुषस्य प्रकृतिविकृत्यनात्मकस्य न बन्धमोच संसाराः, किं तु प्रकृतेरेव । तथा च कापिलाः ।
तस्मान्न बध्यते नैव मुच्यते नापि संसरति कश्चित् । संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ॥ इति । नवरममी बन्धमोचसंसाराः पुरुष उपचर्यते । यथा जयपराजयौ भृत्यगतावपि स्वामिन्युपचर्यते तत्फलस्य को भलाभादेः स्वामिनि संबन्धात्, तथा भोगापवर्गयोः प्रकृतिगतयो - रपि विवेकाग्रहात्पुरुषे संबन्ध इति ॥
अथ प्रमाणस्य सामान्यलचणमुच्यते । अर्थोपलब्धिहेतुः प्रमाणमिति ॥ श्रथोत्तरार्धे मानत्रितयं च प्रमाणत्रितयं च,
10
15
20